________________
तत्र मिथ्यादृष्टिसम्यक्त्वसम्यमिथ्यात्वयोरुद्वलको भवति, स च यावन्नाद्यापि सम्यक्त्वमुद्लयति तावदष्टाविंशतिः, तस्मिन्नुदलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते पड्विंशतिरनादिमिथ्यादृष्टा । एवं नवोदयेऽपि द्रष्टव्यम् । दशोदयस्त्वनन्तानुबन्धिसहित एव भवतीति तत्रापि त्रीणि सत्तास्थानानि भावनीयानि । सासादने त्वेकविंशतिबन्धे विष्वपि सप्ताष्टनवकरूपेषूदयेष्वष्टाविंशतिरेवैकं | सत्तास्थानम् । तथाहि-सासादनत्वमौपशमिकसम्यक्त्वात्पच्यवमानस्योपजायते, सम्यक्त्वगुणेन च तेन मिथ्यात्वं त्रिधा कृतंसम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति । ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्तेः सासादने त्रिष्वप्युदयस्थानेष्वष्टाविंशतिरेवैकं | सत्तास्थानम् । सप्तदशवन्धो द्वयानां सम्यग्मिध्यादृष्टीनामविरत सम्यग्दृष्टीनां च । तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि-सप्तष्टी | नव चेति । अविरतसम्यग्दृष्टीनां चत्वारि, तद्यथा-पट् सप्ताष्टौ नव । तत्र पर्दयोऽविरतानामौपशमिकसम्यग्दृष्टीनां क्षायिकसम्य15 ग्दृष्टीनां वा प्राप्यते। तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, | उपशमश्रेणिप्रतिपाते तूपशान्तानन्तानुबन्धिनामष्टाविंशतिः, उदलितानन्तानुबन्धिनां चतुर्विंशतिः, क्षायिकसम्यग्दृष्टीनां तु सप्तकक्षयादेकविंशतिरेव । सप्तोदये मिश्रदृष्टीनां त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिश्चतुर्विशतिश्च । तत्राष्टाविंशतिसत्कर्मणः सतो मिश्र-13 भावं प्रपन्नस्याष्टाविंशतिः, यस्तु मिथ्यादृष्टिः सम्यक्त्वोद्वलनं कृत्वा मिश्रं नाद्याप्युद्वलयितुं लग्नोऽत्रान्तरे च परिणाममहिम्ना मिथ्यास्वान्निवृत्य मिश्रभावं प्रपन्ना, तस्य सप्तविंशतिः । यश्च विसंयोजितानन्तानुबन्धिचतुष्कः सम्यग्दृष्टिमिश्रभावं प्रपद्यते तस्य चतुर्विशतिः, सा च चतसृषु गतिषु प्राप्यते, चतुर्गतिकानामपि सम्यग्दृशामनन्तानुबन्धिविसंयोजकत्वात्तद्विसंयोजनानन्तरं च केषाश्चित् | परिणामवशेन मिश्रभावप्राप्तिसंभवात् , ततश्च चतसृष्वपि गतिषु मिश्रदृष्टीनां चतुर्विशतिः संभवति । अविरतसम्यग्दृष्टीनां सप्तोदये |
HDGEODOGGCH2