SearchBrowseAboutContactDonate
Page Preview
Page 1381
Loading...
Download File
Download File
Page Text
________________ EARN कर्मप्रकृतिः ॥११०॥ नानि MORLDIDIDIO विंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विंशतिरिति । अथ गुणस्थानेषु सत्तास्थानानि चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने त्रीणि सत्तास्थानानि-अटाविंशतिः सप्तविंशतिः षड्विंशतिश्च, यतो मिथ्यादृष्टिः सम्यक्त्वमिश्रयोरुद्वलको भवति । ससादने एकं सत्तास्थानमष्टाविंशतिः । मिश्रे मोइस्य. सत्तास्था| त्रीणि सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिः सप्तविंशतिश्च, तत्र चतुर्विंशतिविसंयोजितानन्तानुबन्धिनि सम्यग्दृष्टौ मिश्रत्वं प्रपन्ने, सप्तविंशतिश्चोदलितसम्यक्त्वपुञ्जे मिथ्यादृष्टौ तद्भावं प्रपन्ने द्रष्टव्या । तथाऽविरतदेशविरतप्रमत्ताप्रमत्तेषु प्रत्येकं पञ्च सत्तास्थानानिअष्टाविंशतिश्चतुर्विशतिस्त्रयोविंशति-विंशतिरेकविंशतिश्च । अपूर्वकरणे त्रीणि, तद्यथा-अष्टाविंशतिश्चतुर्विशतिरेकविंशतिश्च । अनिघृ-12 त्तिवादरसम्पराये एकादश सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पश्च चतस्रस्तिस्रो द्वे एका च । सूक्ष्मसम्पराये चत्वारि सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेका च । उपशान्तमोहगुणस्थानके त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिरेकविंशतिश्च । तदेवमुक्तानि सप्रपञ्चं मोहनीयस्य सत्तास्थानानि । अथ चन्धोदयसत्तास्थानानां संवेधश्चिन्त्यते-तत्र द्वाविंशतिबन्धे मिथ्यादृष्टेः सप्तोदयेऽष्टाविंशतिलक्षणमेकमेव सत्तास्थानं भवति । कथमिदं प्रत्येयमिति चेत्,उच्यते-सप्तोदयोऽनन्तानुबन्धिराहित्ये संभवति, तद्रहितश्च मिथ्यादृष्टिरवश्यमष्टाविंशतिसत्कर्मा, येन हि पूर्व | 5 सम्यग्दृष्टिना सताऽनन्तानुबन्धिन उद्वलिताः ततश्च स कालान्तरे परिणामवशान्मिथ्यात्वं गतः तत्प्रत्ययेन चानन्तानुवन्धिनो बध्नाति तदाऽसौ मिथ्यादृष्टिबन्धावलिकामानं कालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते, नान्यः, स चाष्टाविंशतिसत्कर्मेति तस्य सत्तास्थानमष्टाविंशतिरेव । अष्टनवदशकोदये चाष्टाविंशतिसप्तविंशतिषड्विंशतिलक्षणानि त्रीणि सत्तास्थानानि, तथाहि-अष्टोदयो द्विधाऽनन्ता- ॥११०॥ नुबन्ध्युदयरहितस्तत्सहितश्च, तत्रानन्तानुबन्ध्युदयरहिते प्रागुक्तयुक्तरष्टाविंशतिरेव सत्तास्थानं, तत्सहिते तु त्रीण्यपि सत्तास्थानानि ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy