SearchBrowseAboutContactDonate
Page Preview
Page 1385
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११॥ मोहस्यसत्तास्थानानि *OSDDDDOOT क्षपयति । यदि तु स्त्रीवेदेन क्षपकश्रेणिं प्रतिपन्नस्तदादौ नपुंसकवेदं क्षपयति, ततोऽन्तर्मुहर्नेन स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुपवेदस्य बन्धव्यवच्छेदः, तदनन्तरं पुरुषवेदहास्यादिषद्के युगपत्क्षपयति, यावच्चोभयत्रापि पुरुषवेदहास्यादिषद्के नक्षीयेते तावच्चतुविधबन्धकस्य वेदोदयरहितस्यैकोदये वर्त्तमानस्यैकादशकं सत्तास्थानं लभ्यते, तयोस्तु क्षीणयोश्चतुष्प्रकूत्यात्मकम्, इत्थं च स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते । यस्तु पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्तस्य नोकषायपदकक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेद इति तस्य चतुर्विधवन्धकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते, किं तु पश्चप्रकृत्यात्मकं, द्वे च प्रागुक्ते, त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया चतुर्विधबन्धकस्य षट् सत्तास्थानानि । तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद्वयवच्छिद्यन्ते, तासु च व्यवच्छिन्नासु बन्धस्त्रिविधो भवति, तदानीं च संज्वलन | क्रोधस्य प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वाऽन्यत्सर्व क्षीणं, तदपि च सत् समयदयोनावलिकाद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावच्चतस्रः प्रकृतयस्त्रिविधवन्धे सत्यः, क्षीणे तु तस्मिस्तिस्रः, तदेवं त्रिविधबन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पञ्च सत्तास्थानानि । तथा संज्वलनमानस्य प्रथमस्थितावावलिकाशेपायां बन्धोदयोदीरणानां युगपद्वयवच्छेदे द्विविधो बन्धो भवति, तदानी च संज्वलनमानस्य प्रथमस्थितिगतमावलिकामानं समयद्वयोनाव. लिकाद्विकबद्धं च दलिकं मुक्त्वाऽन्यत् सर्व क्षीणं, तदपि सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयं यास्यति, यावच्च न याति तावत्तिस्रः सत्यः, क्षीणे तु तस्मिन् द्वे, तदेवं द्विविधबन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पञ्च सत्तास्थानानि । तथा संज्वलनमायायाः प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणानां युगपद्वयवच्छेदे एकविधबन्धो भवति, तदानीं च संज्वलन ५११२॥ 10
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy