SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ 12 तद्वन्धश्चाद्यगुणस्थानद्वयं यावत् । ता एवं नव प्रकृतयः स्त्यानदित्रिकरहिताः षड् भवन्ति, तद्बन्धश्च मिश्रगुणस्थानादारभ्यापूर्वकर णगुण स्थानस्य प्रथमभागं यावत् । ता एव षट् प्रकृतयो निद्रामचलाहीनाश्चतस्रः, तद्वन्धश्चापूर्वकरणगुणस्थानप्रथमभागादूर्व सूक्ष्मसम्परायं यावत् । सत्तास्थानान्यपि दर्शनावरणस्य त्रीणि, नव षट् चतस्रश्चेति । तत्र क्षपकश्रेणिमधिकृत्यानिवृत्तिबादरसम्परायाद्यभागं यावन्नव सत्यः । तत उर्व तु स्त्यानदित्रिके क्षीणे पद प्रकृतयः, ताश्च क्षीणमोहद्विचरमसमयं यावत्सत्यः । द्विचरमसमये निद्राप्रच लयोः सत्ताव्यवच्छेदे चतस्रः सत्यः, ताश्च क्षीणमोहचरमसमय एव क्षीयन्ते । उपशमश्रेण्यां तु नवापि प्रकृतय उपशान्तमोहगुणस्थानं यावत्सत्यः । अत्र नवबन्धस्थाने कालमधिकृत्य भङ्गत्रयं, तथाहि-तदनाद्यनन्तमनादिसान्तं सादिसान्तं चेति । तत्रानाद्यनन्तमभव्यानां, | तेषां कदापि नवविवन्धव्यवच्छेदासंभवात् । अनादिसान्तं भव्यानां, तेषां कालान्तरे नवविधवन्धव्यवच्छेदसंभवात् । सादिसान्तं सम्यक्त्वात्पतितानां द्रष्टव्यं, तच्च जघन्येनान्तर्मुहूर्त कालं यावत् उत्कर्षतो देशोनापुद्गलपरावत्तं यावत् । तथा षट्प्रकृत्यात्मकस्य बन्धस्थानस्य निरन्तरं बध्यमानत्वेनावस्थानमुत्कर्षतो द्वे पक्षष्टी सागरोपमाणां, अन्तरा सम्यमिथ्यात्वान्तरितस्य सम्यक्त्वस्यैतावन्तं कालं यावदवस्थानसंभवात , तत ऊर्ध्व तु कश्चित् क्षपकश्रेणिं प्रतिपद्यते, कश्चित्त मिथ्यात्वं, मिथ्यात्वप्रतिपत्तौ चावश्यं नवविधो बन्ध इति. जघन्येन चान्तर्मुहूर्त्तम् । चतुर्विधवन्धस्थानं जघन्येनैकं समयं उत्कर्षतोऽन्तर्मुहूर्त्तम् । तत्रोपशमश्रेण्यामपूर्वकरणद्वितीयभागे चतुर्विधवन्ध४ मारभ्यानन्तरसमये कश्चित्कालं करोति, कालं च कृत्वा दिवं गतः सन्नविरतो भवति, अविरतत्वे च षड्विधबन्ध इति चतुर्विधबन्धः | स्थानस्यैकसामयिकी स्थितिरुत्कर्षेण त्वान्तमौहतिकी, अपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायान्तस्यापि कालस्यान्तर्मुहर्तप्रमाणत्वात् । तथा नवप्रकृत्यात्मकं दर्शनावरणस्य सत्तास्थानं कालमधिकृत्य द्विधा-अनाद्यनन्तमनादिसान्तं च । अनाद्यनन्तमभव्यानां, कदा-14) COMDISIS Hacke&SRISHTICE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy