________________
1HI
कर्मप्रकृतिः
॥१०॥
दर्शनावरणस्य संवेध भंगा:
प्यव्यवच्छेदात ,अनादिसान्तं भव्यानां, कालान्तरे व्यवच्छेदात् । सादिसान्तं तु न भवति, नवात्मकसत्तास्थानव्यवच्छेदस्य क्षपकश्रेण्यां भावात् , ततश्च प्रतिपाताभावात् । षट्प्रकृत्यात्मकं तु सत्तास्थानमजघन्योत्कृष्टमन्तर्मुहूर्तप्रमाणम् । चतुष्प्रकृत्यात्मकं त्वेकसामयिकम् । उदयस्थाने दर्शनावरणस्य द्वे, तद्यथा-चतस्रः पञ्च च । तत्र दर्शनावरणचतुष्कस्य केवलस्योदये चतुष्प्रकृत्यात्मकमुदयस्थानं, अन्यतमनिद्रोदयसाहित्ये च पश्चप्रकृत्यात्मकं, एते द्वे अप्युदयस्थाने क्षीणमोहगुणस्थानं यावद्रष्टव्ये । अयं च चतसृणां पञ्चानां वा प्रकतीनामुदय एकत्र युगपद्भावापेक्षया द्रष्टव्यः, सामान्यचिन्तायां तु प्रमत्तसंयतं यावन्नवानामप्युदयः, ततः परं स्त्यानद्धित्रिकस्योदया भावात् षण्णामुदयः। स च तावद्यावत्क्षीणमोहस्योपान्त्यसमयः। तत्र च निद्राप्रचलयोरपि व्यवच्छेदाचरमसमये चतसृणामुदयः। अथ बन्धोदयसत्तास्थानानां परस्परं संवेध उच्यते-नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष भङ्गो निद्रोदयाभावे द्रष्टव्यः, निद्रोदये तु नवविधो बन्धः पश्चविध उदयो नवविधा सत्ता, एतौ द्वावपि भङ्गो मिथ्यादृष्टिसासादनानां । तथा पविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावपि मिश्रगुणस्थानादारभ्यापूर्वकरणगुणस्थाना| द्यभागं यावद्वेदितव्यौ । तथा चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावुपशमश्रेण्यामपूर्वकरण द्वितीयभागादारभ्य सूक्ष्मसम्परायचरमसमयं यावत् , उपशान्ते तु बन्धाभावाच्चतुर्विध उदयो नवविधा सत्ता अथवा पञ्चविध उदयो नवविधा सत्ता इति द्वौ भङ्गो । क्षीणमोहचरमसमये च चतुर्विध उदयश्चतुर्विधा सत्ता इत्येष नवमो भङ्गः। तथा चतुर्विधो बन्धश्चतुर्विध उदयः पविधा सत्तेत्येष विकल्पः स्त्यानद्धित्रिकक्षयानन्तरं सूक्ष्मसम्परायचरमसमयं यावत् । तथाऽबन्धश्चतुर्विध उदयः पविधा सत्तेत्येष विकल्पः क्षीणमोहे द्विचरमसमयं यावत् । तदेवं सर्वसंख्यया दर्शनावरणस्य सप्ततिकाकार
नानां परस्पर संवधिमोहस्योपान्त्यसमयः । तत्रत्वंयनं यावश्भवानामप्युदयः
॥१०॥