SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ X| तत्र सप्तानामुपशान्तमोहे क्षीणमोहे वा । चतुर्णा सयोगिकेवलिनि । तदेवमुक्तो मूलप्रकृतीगंधकृत्य बन्धादयसत्ताना सवधः । अथ-|| | तासामेव स्थानान्युच्यन्ते। स्थानं नाम द्वित्रादिप्रकृतिसमुदायः । तत्र वेदनीयायुर्गोत्राणां प्रत्येकं द्वे द्वे सत्तास्थाने-द्वे एका चेति । तत्र वेदनीयस्यायोगिकेवलिद्विचरमसमयं यावद्वे अपि सत्यौ, एकतरस्य व्यवच्छेदे चरमसमये एका । गोत्रस्योच्चैगोत्रे उद्वलिते नीचंगोत्रे वाऽयोगिद्विचरमसमये क्षीणे एका सती, शेषकालं तु द्वे। बधे उदये च वेदनीयायुर्गोत्राणामेकमेवेकप्रकृतिरूपं स्थानम् । न ह्यमीषां विवादिप्रकृ-र तयो युगपद्वन्धमुदयं वा गच्छन्ति । तथा ज्ञानावरणान्तराययोः प्रत्येकं बन्धोदयसत्तास्वेक पञ्चपञ्चप्रकृत्यात्मकं स्थानम् । अथायुषो गुणस्थानेषु बन्धोदयसत्ताश्चिन्त्यन्ते-आद्यं गुणस्थानं यावन्नरकायुषो द्वितीयं यावत्तियगायुषश्चतुर्थ यावन्मनुष्यायुषः सप्तमं यावद्देवायुपो बन्धः । तथा चतुर्थ यावन्नरकायुषो देवायुषश्चोदयः, पञ्चम यावत्तिर्यगायुषश्चतुर्दशं यावन्मनुष्यायुषः । तथा सप्तमं | यावन्नरकायुषः सत्ता, सप्तमं यावत्तियगायुषोऽयोगिकेवलिनं यावन्मनुष्यायुषः, देवायुपस्तूपशान्तमोहगुणस्थानकं यावत् , यतो देवायुषि बद्धेऽप्युपशमश्रेणिमारभते, सा चोपशान्तमोहगुणस्थानं यावद्भवति । सम्प्रत्यायुधो बन्धोदयसत्तासंवेध उच्यते-तत्र तिर्यञ्चो मनुष्याश्च सर्वत्रोत्पद्यन्त इति तेषां चतुर्णामप्यायुषा बन्धसंभवः, देवा नारकाश्च तिर्यअनुष्यगत्योरेवोत्पद्यन्त इति तेषां द्वयोरेवायोबन्धः । ततस्तिर्य डमनुष्य गत्योर्नव नव, देवनारकयोश्च पञ्च पञ्च भङ्गाः सम्भवन्तीति सर्वसंख्ययाऽष्टाविंशतिर्भङ्गाः । तथाहि-नैरयि कस्य परभवायुर्वन्धकालात् पूर्व नारकायुष उदयो नारकायुषः सत्ता १, एष भङ्ग आयेषु चतुर्पु गुणस्थानेषु प्राप्यते, शेषगुणस्थानस्य K नरकेष्टसंभवात् । परभवायुर्वन्धकाले तिर्यगायुषो बन्धो नारकायुष उदयो नारकतिर्यगायुषी सती २, एष भङ्गो मिथ्यादृष्टेः सासादनस्य |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy