SearchBrowseAboutContactDonate
Page Preview
Page 1355
Loading...
Download File
Download File
Page Text
________________ बंधोदय सत्ता संवेधः मोहनीयस्योदये षट् सप्ताष्टौ वा बध्यन्ते । तत्राष्टावायुबन्धकाले, तदभावे तु सप्त, तानि चानिवृत्तिबादरं यावत् , षट् सूक्ष्मकर्मप्रकृतिः सम्पराये । मोहनीयवर्जानां शेषाणामुदये एक षट् सप्ताष्टौ च बध्यन्ते । तत्र षट्सप्ताष्टभावना प्राग्वत् । एकं ज्ञानावरणदर्शनावरणा॥९७॥ न्तरायाणामुदये उपशान्तभोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदये सयोगिकेवलिन्यपि, तच्चैकं सातवेदनीयरूपं द्रष्टव्यम् । तदेवमुक्त उदयस्य बन्धेन सह संवेधः । अथ बन्धस्योदयेन सहोच्यते___षण्णां सप्तानामष्टानां वा बन्धे मोहस्योदयो भवति, अष्टसप्तषड्बन्धानां क्रमेणाप्रमत्तानिवृत्तिबादरसूक्ष्मसम्परायान्तत्वात् , मोहोदयस्य चावश्यं सूक्ष्मसम्परायान्तत्वात् । शेषाणां तूदयोऽष्टानां सप्तानां पण्णामेकस्य च बन्धे भवति । तथाहि-ज्ञानावरणदर्शनावरणान्तराया. णामुदयः क्षीणमोहं यावत् , वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं यावत् एकस्य बन्ध उपशान्तमोहादौ । ततः शेषाणामुदयः सप्ताएषडेकबन्धेऽपि भवति । तदेवमुक्तो बन्धस्योदयेन सह संवेधः । अथ सत्ताया बन्धेन सहोच्यते एककस्याषि कर्मणः सत्तायामेकषट्सप्ताष्टभेदैश्चतुर्विधोऽपि बन्धः संभवति । मोहनीयस्य सत्ताया उपशान्तमोहं शेषघातिनां क्षीणमोहं अघातिनां चतुर्णामयोगिकेवलिनं यावत्प्राप्तः, अष्टसप्तषडेकबन्धानां च यथासंक्रम, अप्रमत्तमनिवृत्तिवादरं मूक्ष्मसम्परायमुप| शान्तमोहादिकं च यावत्प्राप्तः । तदेवमुक्तः सत्ताया बन्धेन संवेधः । अथ बन्धस्य सत्तया सहोच्यते अष्टबन्धे सप्तबन्धे पड्बन्धे च नियमादष्टानां सत्ता, एकस्य च बन्धेऽष्टानां सप्तानां चतुर्णा च क्रमेणोपशान्तमोहे क्षीणमोहे. जासयोगिकेवलिनि च । उक्तो बन्धस्य सत्तया संवेधः । सम्प्रत्युदयेन सहाभिधीयते सप्तानामष्टानां पप्णां वा बन्धे नियमादष्टानामपि प्रकृतीनामुदयो भवति । सातवेदनीयस्यैकस्य बन्धे सप्तानां चतुणां वोदयः । GOSECREER ॥९७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy