SearchBrowseAboutContactDonate
Page Preview
Page 1357
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः सत्ता ॥९८॥ वा । अथवा मनुष्यायुषो बन्धो नारकायुष उदयो मनुष्यनारकायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा । बन्धोपरमे नारकायुष उदयो नारकतिर्यगायुषी सती ४, एष भङ्ग आयेषु चतुर्वपि गुणस्थानेषु, तिर्यगायुर्वन्धानन्तरं कस्यचिन्नारकस्य बंधोदय सम्यहमिथ्यात्वे सम्यक्त्वे वा गमनसंभवात् । अथवा नारकायुष उदयो मनुष्यनारकायुषी सती ५, एषोऽपि भङ्ग आयेषु चतुर्वपि संवेधः गुणस्थानेषु, मनुष्यायुर्वन्धानन्तरं मिश्रे सम्यक्त्वे च संक्रमसम्भवात् । एवं देवानामपि पञ्च भङ्गा भावनीयाः। नवरं नारकायुषः स्थाने देवायुरुच्चारणीयम् । तिरश्चां परभवायुर्वन्धकालात् पूर्व तिर्यगायुष उदयस्तिर्यगायुषः सत्ता १, एष भङ्ग आयेषु पञ्चसु गुणस्थानेपु, शेषगुणस्थानस्य तिर्यक्ष्वसम्भवात् । बन्धकाले नारकायुषो बन्धस्तिर्यगायुष उदयो नारकतिर्यगायुषी सती२, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नारका युरबन्धकत्वात् । अथवा तिर्यगायुषो बन्धस्तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासादनस्य वा । यद्वा मनुष्यायुषो बन्धस्तिर्यगायुप उदयो मनुष्यतिर्यगायुपी सती ४, एषोऽपि भङ्गो मिथ्यादृष्टेः सासादनस्य वा, तिरश्चोऽविरतसम्यग्दृष्टदेशविरतस्य वा देवायुष एव बन्धसम्भवात् । यद्वा देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सती ५, एष भङ्गो मिश्रवजितेष्वाद्येषु पञ्चस्वपि गुणस्थानेषु, मिश्रस्यायुबन्धायोगात्तदर्जनम् । बन्धोपरमे तु तिर्यगायुष उदयो नरकतिर्यगायुषी सती ६, एष भङ्ग आयेषु पञ्चसु गुणस्थाने पु, नरकायुर्वन्धानन्तरं मिश्रसम्यक्त्वादावपि गमनसंभवात् । अथवा तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ७, अथवा तिर्यगायुप उदयो मनुष्यतिर्यगायुषी सती ८, अथवा तिर्यगायुप उदयो देवतिर्यगायुषी सती ९, एते त्रयोऽपि भङ्गा आधेषु पञ्चसु गुणस्थानेषु । तदेवं सर्वसंख्यया तिरश्वां नव भङ्गाः । मनुष्याणामप्येवं नवैव । तत्र मनुष्यायुष ६ ॥१८॥ || उदयो मनुष्यायुषः सत्तेत्येष भङ्गोऽयोगिकेवलिनं यावत् १ । परभवायुर्वन्धकाले नरकायुषो बन्धो मनुष्यायुष उदयो नारकमनुष्या WriKriaREVIODES
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy