SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४४॥ सिद्धानन्तभागकल्पपरमाणुसमुदायरूपा वर्गणा औदारिकशरीरनिष्पादनाय ग्रहणप्रायोग्या भवति । सा च जघन्या । तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया ग्रहणप्रायोग्या वर्गणा। द्विपरमाण्वधिकस्कन्धरूपा तृतीया ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्ध- रूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टा औदारिकशरीरग्रहणप्रायोग्या वर्गणा भवति। जघन्यायाश्च वर्गणायाः सकाशादत्कृष्टा वर्गणा विशे|पाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । औदारिकशरीरग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्व|धिकस्कन्धरूपा वर्गणाऽग्रहणप्रायोग्या, सा जघन्या । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपर| माण्वधिकस्कन्धरूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा है अनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । एतासां चाग्रहणप्रायोग्यता औदारिकं प्रति प्रभूत- परमाणुनिष्पन्नत्वात सूक्ष्मपरिणामत्वाच्च वेदितव्या । वैक्रियं प्रति पुनः स्वल्पपरमाण्वात्मकत्वात् स्थूलपरिणामत्वाच्चावसेया। एवमुत्तर-14 त्रापि भावना कार्या । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमावधिकस्कन्धरूपा वर्गणा वैक्रियशरीरप्रायोग्या जघन्या वर्गणा। ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया वैक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियशरी| रविषये ग्रहणप्रायोग्यास्तावद्वक्तव्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एवं | जघन्याया वर्गणाया अनन्ततमो भागः। वैक्रियशरीरोत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या ग्रहणप्रायोग्या वर्गणा। ततो | द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टा वर्गणा अनन्तगुणा। गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो ॥४४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy