SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ DECISODE | (मलय०)-ननु जीवो योगैस्तदनुरूपपुद्गलस्कन्धान गृह्णाति आलम्बते चेत्युक्तम् , तत्र के पुद्गला ग्रहणप्रायोग्याः, के चाग्रहण-| है प्रायोग्या इति विनेयजनप्रश्नावकाशमाशङ्य ग्रहणाग्रहणप्रायोग्याः पुद्गलवर्गणाः प्ररूपयति—'परमाणु'त्ति । एकैकपरमाणुरूपास्तथा संख्यातानां परमाणूनामसंख्यातानामनन्तानां च परमाणूनां समुदायरूपा वर्गणा भवन्ति । तत्रैकैकपरमाणवः परमाणुवर्गणा । इह वर्गणाशब्दः समुदायवाची, तत एकैकस्मिन् परमाणौ वर्गणाशब्दोऽनेकपर्यायोपनिपातापेक्षया द्रष्टव्यः। यदि पुनः परमाणूनां वर्गणा परमाणुवर्गणेत्युच्येत तर्हि जगति ये केचन परमाणवस्तेषां समुदायः परमाणुवर्गणेत्यापद्येत । तथा च सति 'असंखभागंगुलवगाहो' इति विरुध्येत, एकैकपरमाणूनां सर्वलोकगतत्वात् । तथा द्वयोः परमाण्वोः समुदायो द्विप्रदेशस्कन्धवर्गणाः । त्रयाणां परमाणूनां समु-18 दायस्त्रिप्रदेशस्कन्धवर्गणाः। चतुर्णा परमाणूनां समुदायश्चतुःप्रदेशस्कन्धवर्गणाः । एवं तावद्वाच्यं यावत्संख्येया वर्गणा भवन्ति ।। असंख्यातानां च परमाणूनां समुदायरूपा असंख्येया वर्गणा वाच्याः, असंख्यातस्यासंख्यातभेदात्मकत्वात् । ततोऽनन्तानां परमाणूनां समुदायरूपा अनन्ता वर्गणा वाच्याः, अनन्तस्यानन्तभेदात्मकत्वात् । एताश्च मूलत आरभ्य सर्वा अपि जीवानामल्पपरमाणुतया स्थू-12 जलपरिणामत्वेन चाग्रहणप्रायोग्याः। अनन्तानन्तानां च परमाणूनां समुदायरूपाः काश्चिद् ग्रहणप्रायोग्याः काश्चिदग्रहणप्रायोग्याः । तत्रा भव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा ये परमाणवस्तत्समुदायात्मकाः स्कन्धाः 'आहारगवग्गण'त्ति-आहरणमाहारः-ग्रहणमित्यर्थः, आहार एवाहारकः तत्मायोग्या वर्गणा आहारकवर्गणा भवन्ति, ग्रहणप्रायोग्या वर्गणा भवन्तीत्यर्थः । किं विषया इत्यत आह-'तितणू' इति । औदारिकवैक्रियाहारकरूपतनुत्रयविषये ग्रहणप्रायोग्या वर्गणा 'अग्रहणान्तरिता'-अग्रहणप्रायोग्यवर्गणान्तरिताः । तथा तैजसभाषाप्राणापानमनःकर्मणि च विषयेऽग्रहणप्रायोग्यवर्गणान्तरिता ग्रहणप्रायोग्या वर्गणा भवन्ति । तथाहि-अभव्यानन्तगुण
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy