________________
SOCIAG
द्रष्टव्यः । तत उत्कृष्टाग्रहणप्रायोग्यवगणापेक्षया एकपरमाण्वधिकस्कन्धरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणा। एवमेकैकपरमाण्वधिकस्कन्धरूपा आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणास्तावद्वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । आहारकशरीरमायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्यधिकस्कन्धरूपाऽग्रहणमायोग्या जघन्यवर्गणा, ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावदक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः। इह चूर्णिकृदादयः औदारिकवैक्रियाहारकशरीरमायोग्याणां वर्गणानामपान्तरालेऽग्रहणवर्गणा नेच्छन्ति परं जिन| भद्रगणिक्षमाश्रमणादिभिरिष्यन्त इति तन्मतेनोक्ताः । आहारकशरीराग्रहणमायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा वर्गणा तैजसशरीरप्रायोग्या जघन्या वर्गणा भवति । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया तैजसशरीरप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपास्तैजसशरीरविषये ग्रहणप्रायोग्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया अनन्ततमो भागः । तैजसशरीरप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या भाषापायोग्या वर्गणा ।
N
OREDIC