________________
सहिते वा वैक्रियचतुष्टये उद्वलितेऽशीतिः । ततोऽपि मनुष्यद्विकं उद्वलितेऽष्टसप्ततिः । एतानि त्रीणि सत्तास्थानान्यध्रुव संज्ञान्याहुः । नत्र | प्रकृत्यात्मकं तीर्थकृतोऽष्टप्रकृत्यात्मकम तीर्थकृतोऽयोग्यवस्थाचरमसमये सुप्रसिद्धम् । अत्र दशावस्थितसत्कर्माणि, नवाष्टरूप सत्तास्थानयोरेकसामयिकतयाऽवस्थितत्वायोगात् । दशाल्पतरस्थानानि, तथाहि प्रथमं चतुष्का द्वितीय चतुष्कगमने चत्वारि, द्वितीयचतुष्कान्नवाष्टगमने च द्वे, प्रथमसत्तास्थान चतुष्कसत्कचतुर्थसत्तास्थानात् प्रथमाधुवसंज्ञषडशीतिसत्तास्थानगमने, ततोऽपि तृतीयाधुवसत्तास्थानगमने द्वे, त्रिनवतिद्विनवतिभ्यामाहारकचतुष्टयोद्वलने एकोननवत्यष्टाशीतिसंक्रान्तौ द्वे । तदेवं सर्वसंख्यया दशाल्पतरसत्तास्थानानि । भृयस्कारसत्तास्थानानि पद्, तथाहि भूयो मनुष्यद्विकबन्धेनाष्टसप्ततेरशीतौ गमनं, ततोऽपि नरकद्विके देवद्विके वा वैक्रिय चतुष्टयसहिते भूयोऽपि बध्यमाने षडशीतौ ततोऽपि देवद्विके नरकद्विके वा पुनरपि बध्यमानेऽष्टाशीतौ, ततोऽपि तीर्थकरनामबन्धे एकोननवत्यां गमनमिति चत्वारि । अष्टाशीतेरेवाहारक द्विक (चतुष्टय) बन्धेन द्विनवतौ गमनं, ततोऽपि तीर्थकरनामबन्धे त्रिनवतौ, एवं सर्वसंख्या षडेव | भूयस्कारसत्कर्माणि, नाधिकानि शेषात्सत्तास्थानात्मभूतेऽन्यस्मिन् सत्तास्थाने गमनासंभवात् । यच्चवक्तव्यं तदिह न भवति, नाम्नः सर्वोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्तोपादानासंभवात् ।
तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सत्तास्थानेषु भूयस्कारादयः । सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनां तेऽभिधेयाः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनां सत्तास्थानान्यष्टचत्वारिंशत् । तथाहि एकादश द्वादश। शीतिरेकाशीतिश्चतुरशीतिः पञ्चाशीतिः, ततचतुर्नवत्यादीनि चतुर्दशाधिकशतान्तानि ततः पञ्चविंशाच्छतादारभ्य षट्चत्वारिंशच्छतपर्यन्तानि स्थानानि द्वात्रिंशच्छतवर्जानि निरन्तरं वाच्यानि - ११-१२-८०-८१-८४-८५-९४-९५-९६-९७-९८-९९-१००-१०१-१०२-१०३-१०४-१०५-१०६