________________
कर्मप्रकृतिः ॥१३॥
सत्तास्थानेषु भूयस्कारादयः
DSODEOSARDING
१०७-१०८-१०९-११०-१११-११२-११३-११४-१२५-१२६-१२७-१२८-१२९-१३०-१३१-१३३-१३४-१३५१३६-१३७-१३८-१३९-१४०-१४१-१४२-१४३-१४४-१४५-१४६ । तत्रातीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादश | प्रकृत्यात्मकं सत्तास्थानम् , तस्मिन्नेव समये तीर्थकृतो द्वादशप्रकृत्यात्मकं, ताश्च द्वादश मनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्या ससुभगादेययशःकीर्तितीर्थकरनामान्यतरवेदनीयोच्चैर्गोत्रलक्षणाः । एता एव जिननामरहिता एकादश । सयोगिकेवल्यवस्थायामशीत्या|दीनि चत्वारि सत्तास्थानानि ८०-८१-८४-८५ । तत्राशीतिरियं-देवद्विकमौदारिकचतुष्टयं वैक्रियचतुष्टयं तेजसकार्मणशरीरे तैजस
कार्मणबन्धने तैजसकार्मणसङ्घाते संस्थानषटकं संहननषट्कं वर्णादिविंशतिरगुरुलघुपराघातोपघातोच्छ्वासविहायोगतिद्विकानि स्थि| रास्थिरे शुभाशुभे सुस्वरदुःस्वरे दुर्भगमयशःकीतिरनादेयं निर्माणं प्रत्येकमपर्याप्तं मनुष्यानुपूर्वी नीच्चैगोत्रमन्यतरवेदनीयमित्येकोनस| प्ततिरेकादश च प्रागुक्ता इति । सैवाशीतिजिननामसहितकाशीतिः । अशीतिरेवाहारकचतुष्टयान्विता चतुरशीतिः। सैव जिननामान्विता पश्चाशीतिः । एतान्येवाशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपश्चकदर्शनावरणचतुष्टयानहरायपश्चकसहितानि चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति ९४-९५-९८-९९ । एतानि च क्षीणकषायचरमसमये नानाजीवानधिकृत्य प्राप्यन्ते । एतान्येव निद्रामचलासहितानि यथाक्रमं षण्णवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति ९६-९७-१००-१०१। एतानि क्षीणकषायगुणस्थानके द्विचरमसमयं यावन्नानाजीवापेक्षया प्राप्यन्ते । एतेष्वेव संज्वलनलोभप्रक्षेपे सप्तनवत्यादीनि चत्वारि भवन्ति ९७-९८-१०१-१०२। एतानि सूक्ष्मसम्पराये लभ्यन्ते । एतेष्वेव संज्वलनमायाप्रक्षेपेऽष्टनवत्यादीनि चत्वारि भवन्ति ९८-९९-१०२-१०३ । एतान्यनिवृत्तिबादरसम्परायगुणस्थानपर्यन्ते लभ्यन्ते । तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्यु सत्तास्थानेषु संज्वलनमानप्रक्षेपे नवनवत्यादीनि चत्वारि
१९३॥