________________
कर्मप्रकृतिः
॥९२॥
मोहनस्य पञ्चदश सत्तास्थानानि तद्यथा - अष्टविंशतिः सप्तविंशतिः पविंशतिश्चतुर्विंशतिस्त्रयोविंशतिद्वविंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका च । तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः । सम्यनिध्यात्वेऽप्युलिते पविंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विंशतिः । अष्टाविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिथ्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिध्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततः कषायाष्टकक्ष त्रयोदश । ततो नपुंसक वेदे क्षीणे द्वादश । ततोऽपि स्त्रीवेदे क्षीणे एकादश । ततो नोकषायपदकक्षये पञ्च । ततः पुरुषवेदे क्षीणे चतस्रः । ततः | संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलमाने क्षीणे द्वे । ततः संज्वलनमायायामपि क्षीणायामेकेति । अत्र पञ्चदशावस्थितसत्कर्माणि सवषामपि जघन्यतोऽप्यन्तर्मुहूर्त्तमवस्थानसंभवात् । चतुर्दशाल्पतराणि तानि चाष्टाविंशतिविनिर्मुक्तानि सर्वाण्यपि द्रष्टव्यानि । एकं भूयस्कारसत्कर्म, तच्चाष्टाविंशतिलक्षणं, चतुर्विंशतिसत्तास्थानात् पविंशतिसत्तास्थानाद्वाऽष्टाविंशतिरूपे सत्तास्थाने संक्रमणसंभवात्, शेषाणि सत्तास्थानानि भूयस्कारतया न प्राप्यन्ते, अनन्तानुबन्धिसम्यक्त्वसम्यमिध्यात्वव्यतिरेकेणान्यस्याः प्रकृतेः सत्ताव्यवच्छेदे भूयः सत्ताया अयोगात् । अवक्तव्यं तु सत्कर्मात्र नास्ति, मोहनीयस्य सर्वोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्ताया असंभवात् । नाम्नो द्वादश सत्कर्मस्थानानि त्रिनवतिद्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिरशीतिरेको नाशीतिः अष्टमप्ततिः पद्मप्ततिः पञ्चसप्ततिर्नवाष्टौ चेति । तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिः । सा तीर्थकररहिता द्विनवतिः । त्रिनवतिराहारकचतुष्टयरहित कोननवतिः । द्विनवतिराहारकचतुष्कहीनाऽष्टाशीतिः । इदं प्रथमसत्तास्थानचतुष्कम् । अस्मान्नामत्रयोदशके क्षीणेऽशीतिरेको नाशीतिः पद्मप्ततिः पञ्च| सप्ततिचेति द्वितीयसत्तास्थानचतुष्कं भवति । अष्टाशीतेर्देवद्विके नरकद्विके वोद्वलिते षडशीतिः । ततोऽपि देवद्विकसहिते नरकद्विक15
VANT
Sa
aisa
सत्तास्थानेषु भूयस्कारादयः
॥९२॥