________________
HDDOGGARCARE
| द्विप्रकृत्यात्मकमवस्थितम्, एकप्रकृत्यात्मकस्य स्थानस्यकसामयिकत्वेनावस्थितत्वाभावात् । गोत्रायुषोद्व द्व सत्तास्थान, तद्यथा-द्व एका | EX च। तत्र गोत्रप्रकृत्योरन्यतरानपगमे द्वे । यदा तु तेजोवायुभवगतेनोचैर्गोत्रमुद्वलितं भवति नीचेर्गोत्रं वाऽयोग्यवस्थाद्विचरमसमये
क्षीणं तदैका । आयुषः परभवायुरबन्धं यावदेका, तद्वन्धे च द्वे सत्यौ । तत्र गोत्रस्यैकं द्विप्रकृत्यात्मकं भयस्कारसत्कर्म, यदोद्वलितो१२ चैर्गोत्रो नीचेगों कसत्कर्मा सन् भूय उच्चैगोत्रं बध्नाति तदाऽवसेयं, एकमेकप्रकृत्यात्मकमल्पतरं, तदपि चोच्चैगोत्रे उद्वलिते नीचैगोत्रे
वा क्षीणे, द्वे अवस्थितसत्कर्मणी, द्वयोरपि चिरकालमवस्थानात् , नवरमेकप्रकृत्यात्मके सत्तास्थाने चिरमवस्थानमुद्वलितोच्चगोत्रस्य नीचगोत्ररूपे द्रष्टव्यं, नोच्चैगोत्ररूपे, तस्य द्वितीयसमय एवं क्षयात् । आयुषोऽप्येकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, तच्च परभवायु| बन्धे, एकमेकप्रकृत्यात्मकमल्पतरसत्कर्म, तच्चानुभयमानभवायुषः सत्ताव्यवच्छेदे परभवायुप उदयसमये । द्वे अवस्थितसत्कर्मणी,
द्वयोरपि सत्तास्थानयोश्चिरकालमवस्थानात् । यत्त्ववक्तव्यं तदुभयत्रापि नास्ति, उभयोरपि सर्वस्वखोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः | सत्ताया अयोगात् ।
दर्शनावरणीयस्य त्रीणि सत्कर्मस्थानानि-नव षट् चतस्रश्चेति । तत्र क्षपकश्रेण्यामनिवृत्तिबादराद्धायाः संख्येयान् भागान् यावदपशमश्रेण्यामुपशान्तमोहगुणस्थानं यावन्नव । क्षपकश्रेण्यामनिवृत्तिवादरसम्परायाद्धायाः संख्येयेभ्यो भागेभ्यः परतः क्षीणमोहगुणस्थानस्य द्विचरमसमयं यावत षट् , चरमसमये चतस्रः । अत्र द्वे अल्पतरे-पट चतस्रश्चेति । नवपडात्मके द्वे अवस्थितसत्कर्मणी, चतुष्प्रकृत्यात्मकस्य सत्तास्थानस्यैकसामयिकत्वेनावस्थितत्वासंभवात् । भूयस्कारमवक्तव्यं चात्र नास्ति, चतुरादिप्रकृतिसत्ताव्यवच्छेदे भूयः सत्ताऽसंभवात् ।
DSIOGREDIOCHOD