________________
कर्मप्रकृतिः
॥९॥
सत्तास्थानेषु भूयस्कारादयः
न लभ्यते । अथ स्वभावस्थे तीर्थकरे संभविनि चतुस्त्रिंशदुदये चतुश्चत्वारिंशदादीनामन्यतमस्मादुदयस्थानात्संक्रमे चतुस्त्रिंशदुदयोऽल्पतरो भवतीति चेन्न, गुणस्थानक्रमारोहं विना केवलित्वाप्राप्तः, क्रमानुसरणे च क्षीणमोहगुणस्थाने त्रयस्त्रिंशत्प्रकृत्यात्मकमेकमेवोदयस्थानं मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तितजसकार्मणस्थिरास्थिरशुभाशुभवर्णादिचतुष्टयागुरुलघुनिर्माणौदारिकद्विकप्रत्येकोपघातान्यतरविहायोगतिपराघातसुस्वरदुःखरान्यतरोच्छ्वासान्यतमसंस्थानाद्यसंहननान्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रलक्षणं प्राप्यते । ततः केवलज्ञानोत्पत्तौ तीर्थकरनामोदये चतुस्त्रिंशल्लक्षणमुदयस्थानं भूयस्कारतयैव प्राप्यते, नाल्पतरतयेति । यदपि चैकोनपष्टिरूपमुदयस्थानं तदपि ततोऽन्यस्य महत उदयस्थानस्याभावान्नाल्पतरत्वमास्कन्दतीति यापगमाच्चतुर्विंशतिरेवाल्पतराः । तदेवमुक्ताः सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु भृयस्कारादयः । उदीरणाधिकारोऽपि पाय उदयसम एव द्रष्टव्यः। नवरं नाम्नोऽष्टनवोद
यस्थानयोरुदीरणाभावः सामान्यतः सर्वोत्तरप्रकृतिसमुदाये चाप्रमत्तादौ वेदनीयायुर्वजेनमित्यादिरूपो यो विशेषस्तमुदीरणाप्रस्थानतः | सम्यक् परिभाव्य तद्गता भूयस्कारादयो निरूपणीयाः ।। ___ सम्प्रति प्रत्येकं ज्ञानावरणीयाद्यत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु भूयस्कारादयो वाच्याः । तत्र प्रत्येक ज्ञानावरणीयाद्युत्तरप्रकृतीनां ते भाव्यन्ते-ज्ञानावरणीयस्यान्तरायस्य च प्रत्येकं पश्चपञ्चप्रकृत्यात्मकमेकं सत्तास्थानमवस्थितम् ।। अत्रान्यस्य महतोऽल्पस्य वा स्थानस्याभावाझ्यस्काराल्पतरासंभवः, अवक्तव्योऽप्यत्र नास्ति, सकलैतदुत्तरप्रकृतिसत्ताव्यवच्छेदे भ्यः सत्ताऽसंभवात् । वेदनीयस्य द्वे सत्तास्थाने, तद्यथा-द्वे एका च । तत्र द्वे अयोग्यवस्थाद्विचरमसमयं यावत् , एका चरमसमये। अत्रन भूयस्कारसत्कर्मता, एकप्रकृत्यात्मकसत्तास्थानाद्विपकृत्यात्मकसत्तास्थाने संक्रमाभावात् । एकमल्पतरं, तचेकप्रकृत्यात्मकम् । एक
॥११॥