SearchBrowseAboutContactDonate
Page Preview
Page 1342
Loading...
Download File
Download File
Page Text
________________ 22 Aak पर्याप्तस्य स्वरे प्रक्षिप्ते त्रिपञ्चाशत् । ततो वेदकसम्यक्त्वभयजुगुप्सानिद्राणामुक्तनात्या पक्षप सप्तपञ्चाशदन्ताः । तिरश्रागकृत्याद्यातनाम्नि प्रक्षिप्तेऽष्टपञ्चाशत् । एते चाविरतोदयाः, सर्वेऽपि भूयस्कारा अल्पतराश्च संभवन्ति । निद्राभयजुगुप्सोद्योतानामध्रुवोदयत्वात् । | मिथ्यादृष्टेः षट्चत्वारिंशत्प्रभृतीन्येको नपष्टिपर्यन्तान्युदयस्थानानि । तानि च सप्ततिकार्थं परिभाव्य निद्राभय जुगुप्सोद्योतानां संचारणेन | स्वयमेव ज्ञातव्यानि । अथ मिध्यादृष्टेः सप्तकोदये नाम्न एकविंशत्युदयस्थस्य पञ्चचत्वारिंशद्रूपमुदयस्थानं कुतो न भवतीति चेदन्तरा| लगतौ मिथ्यादृष्टेरनन्तानुबन्धिसहितस्यैव प्राप्तेः, अनन्तानुबन्धिरहितस्य तस्य मरणनिषेधात् । तथा च सत्यष्टकोदय इति पट्चत्वारिंशदादीन्येव तस्योदयस्थानानि । एकोनषष्टिरूपं तु तस्योदय स्थानमन्यतमक्रोधादिचतुष्टयान्यतमवेदान्यतम युगलभयजुगुप्सामिथ्यात्वरूपमोहनीयदशकोदये वर्त्तमानस्य तिर्यग्गनिपञ्चेन्द्रिय जातित्रसवादरपर्याप्त सुभगादुर्भगे कतरादेयानादेयैकतर यशः कीर्त्त्य यशः कीर्त्त्य कतरवर्णा| दिचतुष्टया गुरुलघुस्थिरास्थिरशुभाशुभतैजसकार्मणनिर्माणौदारिक द्विकान्यतमसंस्थानान्यतम संहननप्रत्येको पघातपराघातान्यतर विहायो| गतिसुस्वरदुः स्वरान्यतरोच्छ्वासोद्योत रूपना मसक्कै कत्रिंशत्प्रकृत्युदयवतो ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयान्यतमनिद्रोदय| वतोऽन्यतरवेदनीयान्यतमायुरन्यतरगोत्राण्यनुभवतो द्रष्टव्यम् । अत्रावक्तव्योदयो न घटते सर्वप्रकृत्युदयव्यवच्छेदे भूय उदयासंभवात् । अवस्थितोदयाः पविंशतिः, स्थानसमत्वात्तेषाम् । अथान्तरालगतौ समुद्घाते च संभवीनि यान्युदयस्थानानि तेषु कथमवस्थितत्वं ?, सत्यं, तत्रापि समयद्वयत्रयावस्थानोपत्तेः । भूयस्कारोदया एकविंशतिः, यतो न छद्मस्थोदयेषु केवली याति नाप्यतीर्थ करस्तीर्थकरोदयं, नाप्ययोगी सयोगिकेवल्युदयमित्येकादशद्वादशत्रयोविंशतिचतुर्विंशतिचतुश्चत्वारिंशल्लक्षणानि पञ्चोदयस्थानानि भूयस्कारतया न प्राप्यन्ते । अल्पतरोदया चतुर्विंशतिः, यतोऽविरतसम्यग्दृष्टिर्मिथ्यादृष्टिर्वा न केवल्युदयस्थानमारोहतीति चतुस्त्रिंशल्लक्षणोऽल्पतरोदयो 22
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy