________________
ak
व्याः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानानि षड्विंशतिः । तद्यथा-एकादश द्वादश त्रयोविंशतिश्चतुर्विंशतिः, ततं एकोनत्रिंशदादीनि चतुस्त्रिंशदन्तानि ततश्चतुश्चत्वारिंशदादीनि एकोनषष्टयन्तानि, ११-१२-२३-२४२९-३०-३१-३२-३३-३४-४४-४५ | ४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९ । तत्र मनुष्य गतिमनुष्यायुःपञ्चेन्द्रियजातित्र सबादरपर्याप्तसुभगादेययशः कीर्त्तयोऽन्यतरवेदनीयमुचैर्गोत्रं चेत्येकादशम कृत्युदयो तीर्थकृतोऽयोगित्वावस्थायाम् । एष एव तीर्थकरनामान्त्रितोद्वादशोदयस्तीर्थकृतः । एतावेव द्वावुदयावगुरुलघुनिर्माणस्थिरास्थिरशुभाशुभ तैजसकार्मणवर्णादिचतुष्टयरूपनामध्रुवोदयसहितौ समुद्घाते कार्मणका योगे त्रयोविंशतिचतुर्विंशत्युदयौ भवतः । एतेषूदयस्थानेषु न भूयस्कारप्राप्तिः, अयोगिनः सयोगित्वस्य अतीर्थ कृतश्व तीर्थकरत्वस्याप्राप्तेः। तावेव त्रयोविंशतिचतुर्विंशत्युदयौ प्रत्येकोपघातौदारिकद्विकान्यतमैक संभविसंस्थानाद्य संहननसमेतौ यथासङ्ख्यमेकोनत्रिंशत्रिंशदुदयौ भवतः । तथा स्वभावस्थयोस्तीर्थकरातीर्थकरयोर्यावेकत्रिंशत्रिंशदूपौ नाश्न उदयौ तावन्यतरवेदनीयमनुष्यायुरुच्चर्गात्रसमेतौ चतुस्त्रिंशत्त्रयस्त्रिंशदुदयौ भवतः । तयोः खरनिरोधे क्रमेण त्रयस्त्रिंशद्वात्रिंशदुदयौ । तयोरप्युच्छ्वासनिरोधे द्वात्रिंशदेकत्रिंशदुदयौ । एते दशोदयाः केवलिनाम् । एतेषु दशसुदयस्थानेषु षड्भुयस्कारोदयाः । ते चातीर्थकरतीर्थकरावधिकृत्य क्रमेण कोनत्रिंशत्रिंशदादयो | द्रष्टव्याः, शेषास्तु न संभवन्ति । तत्र कारणमुक्तमेव । नवाल्पतरोदयाः, ते च चतुस्त्रिंशदर्जाः शेषाः सर्वेऽपि । चतुश्चत्वारिंशदुदयः क्षीणससकस्याविरतसम्यग्दृष्टेरन्तर लगतौ वत्तमानस्य । तत्र ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कमन्तरायपञ्चकमनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयस्त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरद्युगलमिति षद्मोहनीय प्रकृतयः सर्वसङ्ख्यया विंशतिर्घातिप्रकृतयः । तथा चत | सृष्वन्यतमा गतिरन्यतमानुपूर्वी पञ्चेन्द्रियजातिः त्रसबादरपर्याप्तापर्याप्तान्यतरसुभगादुर्भगै कतरादेया नादेयै कतर यशः कीर्त्त्य यशः कीत्यकत
G5ZVANS