SearchBrowseAboutContactDonate
Page Preview
Page 1338
Loading...
Download File
Download File
Page Text
________________ DISCARRIOROSCORSE र उदयासभवात् । ज मोहनीयस्य नवोदयस्थानानि-एका द्वे चतस्रः पञ्च षट् सप्ताष्टौ नव दश च । एतानि चाग्रे संवेधे भावयिष्यन्ते । अत्राष्टौ भय| स्काराः, अष्टावल्पतराः, नवावस्थिताः, अवक्तव्या उदयास्तु पञ्च, तथाहि-एका षट् सप्ताष्टौ नव च । तत्र यदोपशान्तमोहादद्धाक्षपेण | प्रतिपतति तदा मूक्ष्मसम्परायं प्रविशतः संज्वलनलोभरूपैकप्रकृत्यात्मकोऽवक्तव्योदयः। भवक्षयेण ततः प्रतिपाते चाद्यसमय एव चतुर्थगुणस्थानं गच्छति । स च यदि क्षायिकसम्यग्दृष्टिर्भयस्य जुगुप्सायाश्चावेदकस्तदा तस्यानन्तानुबन्धिवर्जा अन्यतमे त्रयः क्रोधा | दिकाः पुरुषवेदो हास्यरतियुगलमिति पद् प्रकृतय उदये प्राप्यन्त इत्याद्यसमये पदप्रकृत्यात्मकोऽवक्तव्योदयः । यदि चाद्यसमय एव राक्षायोपशमिकसम्यक्त्वं वेदयते क्षायिकसम्यग्दृष्टिरेव वा सन् भयं जुगुप्सां वाऽनुभवति तदा सप्तप्रकृत्यात्मकः । क्षायोपशमिकसम्य|क्त्वभययोस्तज्जुगुप्सयोर्वा क्षायिकसम्यक्त्ववतोऽप्याघसमये भयजुगुप्सयोयुगपदुदये वाऽष्टप्रकृत्यात्मकः । क्षायिकसम्यक्त्वाभावे क्षा४ योपशमिकसम्यक्त्वभयजुगुप्सानां समुदितानामुदये नवप्रकृत्यात्मकः । ___नाम्न उदयस्थानानि द्वादश, तथाहि-विंशतिरेकविंशतिश्चतुर्विंशत्यादीन्येकत्रिंशदन्तानि नवाष्टौ च, २०-२१-२४-२५-२६२७-२८-२९-३०-३१-९-८, एतान्यप्यग्रे संवेधेऽभिधास्यामः । अत्राष्टौ भूयस्कारोदयाः, अष्टोदयानवोदये नवोदयाविंशत्युदये | विंशत्युदयाच्चैकविंशत्युदयेऽगमनात्, किं त्वेकविंशत्युदयस्थानादारभ्य यथायोगं संसारे समुद्घाते वा चतुर्विशत्यायुदयस्थानेष्वेव गमन- | संभवात् । अल्पतरोदया नव, यतो नवकोदयादष्टकोदये एकविंशत्युदयाविंशत्युदये पञ्चविंशत्युदयाच्च चतुर्विशत्युदये गमनं न संभवति, | ततो नवैवाल्पतरोदयाः, ते च तीर्थकरातीर्थकरयोः समुद्घातप्रतिपत्तिमयोगित्वप्रतिपत्ति चाश्रित्य भाव्यन्ते-तत्र स्वभावस्थस्यातीर्थ ADSOONNECT
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy