SearchBrowseAboutContactDonate
Page Preview
Page 1337
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८॥ बध्नतः पञ्चषष्टिप्रकृत्यात्मक एकोनविंशतितमः। तस्यैवायुबन्धकस्य षट्पष्टिप्रकृत्यात्मको विंशतितमः । ततो मिथ्यात्वं गतस्य नाम्न-16 स्त्रयोविंशति बनत आयुर्वन्धकस्य मिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्यानद्धित्रिकाणि च बध्नतः सप्तषष्टिप्रकृत्यात्मक एकविंशतितमः। उदयस्थातस्यैव पञ्चविंशतिबन्धकस्यायुरबन्धेऽष्टषष्टिप्रकृत्यात्मको द्वाविंशतितमः । तस्यैव पञ्चविंशतिबन्धकस्यायुषो बन्धे एकोनसप्ततिप्रकृत्या- नेषु भूयस्मकत्रयोविंशतितमः । तस्यैव मिथ्यादृष्टेः षड्विंशतिबन्धकस्यायुषो बन्धे सप्ततिप्रकृत्यात्मकश्चतुर्विंशतितमः । तस्यैव नाम्नोऽष्टाविंश स्कारादयः तिबन्धकस्यायुरबन्धे एकसप्ततिप्रकृत्यात्मकः पञ्चविंशतितमः । तस्यैवायुर्वन्धकस्य द्वासप्ततिप्रकृत्यात्मकः षड्विंशतितमः। तस्यैव मिथ्यादृष्टेरेकोनत्रिंशतमायुश्च बध्नतस्त्रिसप्ततिप्रकृत्यात्मकः सप्तविंशतितमः, तस्यैव नाम्नास्त्रिंशतं बध्नत आयुर्वन्धकस्य चतुःसप्ततिप्रकत्यात्मकोऽष्टाविंशतितमः । इह केचिद्भूयस्कारा अन्यान्यावधिस्थानाद्भूयो भूयः संभवन्तोऽप्येकवारं गृहीतत्वान्न पृथग्गणनायामधिक्रियन्ते, ततोऽष्टाविंशतिरेव भूयस्काराः, एतदनुसारेणाल्पतरा अप्यष्टाविंशतिरेव भावनीयाः, अवस्थितबन्धास्तु स्थानसमा इत्येकोनत्रिंशत् , अवक्तव्यस्त्वत्रानुपपन्नः, सर्वोत्तरप्रकृत्यबन्धकीभूतस्य भूयो बन्धकत्वानुपपत्तेः। . तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च बन्धस्थानेषु भूयस्कारादयः,अथोदयस्थानेषु वक्त-2 | व्याः । तत्र प्रथमतः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु भावनीयाः । ते चैवम्-ज्ञानावरणीयान्तराययोर्वेदनीयायुर्गोत्राणां चैकैकमुदयस्थानं पश्चपश्चप्रकृत्यात्मकमेकैकप्रकृत्यात्मकं च । दर्शनावरणीयस्य द्वे उदयस्थाने-चतस्रः पञ्च चेति । तत्र चक्षुरचक्षुग्वधिकेवलदर्शनावरणरूपाश्चतस्रः, ता एव निद्रापञ्चकान्यतमसहिताः पञ्च, निद्रा हि परावर्तमानोदया इति द्विवादिका नोदयमायान्ति । ॥८८॥ अत्रको भूयस्कारः, एक एव चाल्पतरः, द्वाववस्थितौ, अवक्तव्यस्तु नास्ति, क्षीणमोहे सर्वदर्शनावरणप्रकृत्युदयव्यवच्छेदे सति भूय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy