________________
C
सम्परायमागतस्य ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरण चतुष्टय यशः कीर्युच्चेर्गोत्ररूपाः षोडश प्रकृतीरधिका बध्नतः सप्तदशप्रकृत्या| त्मक एको भूयस्कारः । ततोऽनिवृत्तिवादरं प्रविशतः प्रथमतः संज्वलनलोभमेकमधिकं बघ्नतोऽष्टादशप्रकृत्यात्मको द्वितीयो भूयस्कारः । ततो मायामपि बध्नत एकोनविंशतिप्रकृत्यात्मकस्तृतीयः । ततः संज्वलनमानबन्धे विंशतिप्रकृत्यात्मकस्तुरीयः । ततः संज्वलनक्रोध| स्यापि बन्धे एकविंशतिप्रकृत्यात्मकः पञ्चमः । ततोऽप्यधोऽवतरतः पुरुषवेदमपि बघ्नतो द्वाविंशतिप्रकृत्यात्मकः षष्ठः । ततोऽपूर्वकर|णगुणस्थानकं प्रविशतो भयजुगुप्साहास्य रतिरूपप्रकृतिचतुष्टयमधिकं बघ्नतः षड्विंशतिप्रकृत्यात्मकः सप्तमः । ततस्तस्मिन्नेवापूर्व करणगुणस्थानके क्रमेणाधोऽवतरतो नाम्नोऽष्टाविंशतिं बध्नतो यशः कीर्त्तिवर्जाः शेषाः सप्तविंशतिप्रकृतयोऽधिकाः प्राप्यन्त इति त्रिपञ्चा शत्प्रकृत्यात्मकोऽष्टमो भूयस्कारः । तस्यैव तीर्थकरनामसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं वध्नतश्चतुष्पञ्चाशत्प्रकृत्यात्मको नवमः । आहारकद्विकसहितां त्रिंशतं चघ्नतः पञ्चपञ्चाशत्प्रकृत्यात्मको दशमः । आहारकद्विकतीर्थकरनामसहितामेकत्रिंशतं बध्नतः पट्पञ्चाश| स्प्रकृत्यात्मको द्वादशः । एकत्रिंशता सह निद्राद्विकं बघ्नतोऽष्टपञ्चाशत्प्रकृत्यात्मकस्त्रयोदशः । ततोऽप्रमत्तगुणस्थाने समागतस्य तामेवा|ष्टपञ्चाशतं देवायुषा सह बध्नत एकोनषष्टिप्रकृत्यात्मकचतुर्दशः । ततो देशविरतगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्य प्रत्याख्यानावरणकषायचतुष्टयमधिकं बध्नतः षष्टिप्रकृत्यात्मकः पञ्चदशः । तस्यैव नाम्न एकोनत्रिंशतं बध्नत एकपष्टिप्रकृत्यात्मकः पोडशः । ततोऽविरतसम्यग्दृष्टिगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्यायुरबन्धेऽप्रत्याख्यानकषाय चतुष्टस्याधिकस्य बन्धे त्रिषष्टिप्रकृत्यात्मकः सप्तदशः। इह प्रकारान्तरासंभवात् द्विषष्टिप्रकृत्यात्मकं बन्धस्थानं सर्वथा न संभवति, ततस्तदात्मको भूयस्कारो न लभ्यते । ततस्तस्यैवाविरतसम्यग्दृष्टेर्नाम्न एकोनत्रिंशतं बध्नतश्चतुःषष्टिप्रकृत्यात्मकोऽष्टादशो भूयस्कारः । तस्यैव मनुष्यगतिप्रायोग्यां त्रिशतं ।