SearchBrowseAboutContactDonate
Page Preview
Page 1335
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८७॥ बंधस्थानेषु भृयस्कारादयः OMGREGOGREGISAL त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यबन्धः, यदि चानुपात्ततीर्थकरनामा भवति तदा तस्य तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बघ्नतः प्रथमसमये तृतीयोऽवक्तव्यबन्धः। शेषेषु ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणेषु पञ्चसु कर्मसु बन्धस्थानमेकैकमेव भवति, ज्ञानावरणान्तराययोः प्रकृतिपञ्चकस्य । समुदितस्यैव, वेदनीयायुगोत्राणां चान्यतरैकप्रकृतेरेव बन्धात् । अवस्थितबन्धश्चैतेषां प्रभृतकालमवस्थितत्वेन बध्यमानत्वादेकैकोऽ. स्त्येव । अवक्तव्यबन्धोऽपि वेदनीयवर्जानां चतुर्णामेकैकोऽस्ति । तत्र ज्ञानावरणस्थान्तरायस्य चोपशान्तमोहगुणस्थानादद्धाक्षयेण भवक्षयेण वा प्रतिपाते पञ्चपञ्चप्रकृत्यात्मकः प्रथमसमये एकेकोऽवक्तव्यो बन्धः । गोत्रस्य तूपशान्तमोहगुणस्थानादेव द्विधाऽपि प्रतिपति. तस्योचंगोत्रं बध्नतः प्रथमसमये उच्चगोत्रप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । आयुषो बन्धारम्भे तां तामायुःप्रकृति बनतः प्रथमसमये | तत्तदेकप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । वेदनीयस्य त्ववक्तव्यबन्धः सर्वथाऽनुपपन्नः, अयोग्यवस्थायां तद्वन्धे व्यवच्छिन्ने भूयोऽपि बन्धासंभवात् । ___ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां बन्धस्थानेषु भूयस्कारादयः, सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानेषु ते | | वक्तव्याः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानान्येकोनत्रिंशत् , तद्यथा-एका सप्तदश तत ऊर्ध्वमे कोत्तराणि स्थानानि द्वाविं. शतिं यावत् ततः पविंशतिः ततत्रिपश्चाशदादीनि द्विषष्टिवर्जान्येकोत्तरवृद्धानि स्थानानि चतुःसप्ततिं यावद्वाच्यानि, १-१७-१८१९-२०-२१-२२-२६-५३-५४-५५-५६-५७-५८-५९-६०-६१-६३-६४-६५-६६-६७-६८-६९-७०-७१-७२-18 ७३-७४ । अत्राटाविंशतिर्भूयस्काराः, तथाहि-एकप्रकृत्यात्मकं स्थानमुपशान्तमोहगुणस्थानादौ, तत उपशान्तमोहात् परिभ्रंशे सूक्ष्म ॥८७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy