________________
जीवानपेक्ष्य नानाप्रकाराणीति सप्ततिकार्थसङ्ग्रहाद्भावनीयानि । अत्र भूयस्काराः पद्-त्रयोविंशत्यादेः पञ्चविंशत्यादिषु एकत्रिंशदन्तेषु गमनात्, एकत्रिंशद्बन्धादुत्तीर्यैकप्रकृतिबन्धस्य च क्रियमाणस्य गुरुत्वाभावादष्टान्तरेष्वपि पण्णामेव भूयस्काराणां संभवात् । अथ प्रति पातकाले एकस्याः प्रकृतेर्बन्धमा धायैकत्रिंशत्प्रकृतिबन्धमपि करोति । एकप्रकृत्यपेक्षया चैकत्रिंशत्प्रकृतिबन्धो भूयस्कार इति सप्त भूयस्काराः प्राप्नुवन्ति । युक्तं चैतत् सप्तानां भूयस्काराणां शास्त्रान्तरेऽप्यभिधानात् । उक्तं च शतकचूर्णी- "एकाओ वि एकतीसं जाइ |त्ति भूओगारा सत्त" इति । तदयुक्तम्, एकत्रिंशद्बन्धरूपस्य भूयस्कारस्याष्टाविंशत्याद्यपेक्षया प्रागेव गृहीतत्वात् एकापेक्षया तस्य पृथग्भावा| योगात् । न ह्यवधिभेदाद्भुयस्कारभेदो विवक्ष्यते, तथा सति भूयस्काराणामतिबाहुल्यप्रसक्तः । तथा हि-कदाचिदष्टाविंशते रेकत्रिंशद्वन्धं गच्छति कदाचिदेकोनत्रिंशतः कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबन्धं गच्छति कदाचित्पञ्चविंशतेरित्यादि । तदेवं | सप्तातिरिक्ता बहवोऽपि भूयस्काराः प्राप्नुवन्ति न चैतदिष्टं, ततो नावधिभेदाद्भूयस्कारभेद इति षडेव भूयस्कारभेदाः । शास्त्रान्तरे | सप्ताभिधानं बन्धादनुत्तीर्णावधिभेदो न भूयस्कारभेदप्रयोजकः, तदुत्तीर्ण विधिभेदस्तु भूयस्कारभेदप्रयोजक इति प्रसङ्गाभिप्रायेण, तत्रापि परमार्थतः पडन्तर्भाव एवोन्नेय इति तच्चम् । अल्पतराः सप्त, तथाहि - देवत्वं प्राप्तस्यैकत्रिंशतस्त्रिंशति गमनं संभवति, तस्यैव देवभवाच्च्यवमानस्य त्रिंशत एकोनत्रिंशति, तथा क्षपकश्रेण्यारोहे उपशमश्रेण्या रोहे वाऽष्टाविंशत्यादेरेकस्यां नानाजीवानां यथायोगं त्रिंशदा देस्त्रयोविंशत्यन्तेषु गमनं ततः सप्ताल्पतराः । अवस्थिता अष्ठैव, अवक्तव्यास्तु त्रयः, ते पुनरेवम् - उपशान्तमोहावस्थायां नामकर्मणः | सर्वथाऽबन्धको भूत्वा इहैवोपशान्ताद्वाक्षयेण यदा पुनरप्येकविधं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यबन्धः, यदा चोपशान्तमोहावस्थायामेवायुःक्षयेणानुत्तरसुरेषु समुत्पद्यते उपात्ततीर्थकरनामा च तदा तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां