________________
कर्मप्रकृतिः
॥८६॥
SORR
बंधस्थानेषु भूयस्कारा
दयः
तबन्धाः । यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेण प्रतिपत्य चतुर्विधं बध्नाति तदाऽऽद्यसमये प्रथमोऽवक्तव्यबन्धः, भूयस्कारादिलक्षणक्तमशक्यत्वात . द्वितीयादिसमयेषु त्ववस्थितः। यदा तूपशान्तमोहावस्थात एवायु:क्षयेणानुत्तरसुरेघूपपद्यते तदा तत्राद्यसमय एव पदविधं बनतो द्वितीयोऽवक्तव्यः, द्वितीयादिसमयेषु त्ववस्थितः। तदेवमत्र द्वौ भूयस्कारी, द्वावल्पतरौ बन्धौ, अवस्थितास्तु गणनया पट भवतोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदात्रय एव, अवक्तव्यौ तु बन्धी
द्वाविति स्थितम् । * मोहनीयस्य दश बन्धस्थानानि-द्वाविंशतिरेकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिम्रो द्वे एका च । तत्र द्वाविंशतिक | बन्धस्थान मिथ्यादृष्टी, एकविंशतिकं सासादने, सप्तदशक मिश्रऽविरतसम्यग्दृष्टौ (च); त्रयोदशकं देशविरते, नवकं प्रमत्ताप्रमत्तयो. रपूर्वकरणे च, पश्चादीन्येकपर्यन्तानि अनिवृत्तिवादरे प्रथमादिपु पश्चान्तेषु भागेषु । अत्र भूयस्कारा नव, ते चोपशमश्रेणित: प्रतिपाते संज्वलनलोभरूपेकपकृतिबन्धादारभ्य क्रमेण वेदितव्याः। अल्पतरबन्धास्त्वष्टौ, यतो द्वाविंशतिबन्धादेकविंशतिबन्धे, एकविंशतिबन्धाद्वा | सप्तदशबन्धे गमनं न संभवति, द्वाविंशतिबन्धकस्य मिथ्यादृष्टेरेकविंशतिबन्धकसासादनभावस्यानन्तर्येणाप्राप्तः, एकविंशतिबन्धकस्य च सासादनस्य नियमतो मिथ्यात्व एव गमनात् सप्तदशवन्धकमिश्राविरतसम्यग्दृष्टिभावालाभाद् । अवस्थितबन्धा दश "अवस्थितबन्धः सर्वत्रापि बन्धस्थानसम" इतिवचनात् । एकसप्तदशप्रकत्यात्मको द्वाववक्तव्यबन्धौ । तौ चोपशान्तमोहगुणस्थानादद्धाक्षयेण भवक्षयेण च प्रतिपाते भावनीयौ।।
नाम्नी बन्धस्थानान्यष्टौ । तथाहि-त्रयोविंशतिः पञ्चविंशतिः षविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशदेका च । एतानि च नाना
ESPO
॥८६॥