________________
उदीरणास्थानानि मूलप्रकृतीनां पञ्च। तथाहि-अष्टौ, सप्त, षद्, पञ्च द्वे चेति । अत्र त्रयो भूयस्काराः, तथाहि-उपशान्तमोहः पञ्चकमोदीरको भूत्वा प्रतिपतन सूक्ष्मसम्पराये समागतः षण्णामुदीरको भवति, ततोऽपि प्रतियतन् प्रमत्तसंयतगुणस्थानादावागत आयुष्यावलिकाशेषे च समानां, तत ऊर्ध्व परभवेऽष्टानां, द्विकोदीरकास्तु क्षीणमोहः सयोगिकेवली च, न चानयोरेकतरोऽपि प्रतिपततीत्येतदपेक्षया भूयस्कारो न लभ्यते इति त्रय एव भूयस्काराः, चत्वारोऽल्पतराः, पञ्चावस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, सर्वमूलपकृत्यनु. दीरकस्यायोगिकेवलीनो भूयोऽप्युदीरकत्वाभावात् ।
सत्तास्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्चेति । अत्रैकोऽपि भूयस्कारो न संभवति, सप्तादिसत्ताकस्य क्षीगमोहादेः प्रतिपाताभावेनाष्टादिसत्ताकत्वासंभवात् , द्वावल्पतरौ, त्रयोऽवस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, क्षीणशेषकर्मणो भूयः कर्मसत्ताया | असंभवात् ।
तदेवमुक्ता मूलप्रकृतीनां बन्धोदयोदीरणासत्तास्थानेषु भूयस्कारादयः, सम्प्रत्युत्तरप्रकृतीनां तेषु तेऽभिधातव्याः
तत्र दर्शनावरणीयस्य त्रीणि बन्धस्थानानि--नव षट् चतस्रश्चेति । तत्र सर्व प्रकृतिसमुदायो नत्र, तद्वन्धश्चाद्यगुणस्थानद्वयं यावत्, | ततः परं स्त्यानद्धित्रिकबन्धव्यवच्छेदे सम्यमिथ्यादृष्टयादिषु पवि, बध्नतः प्रथमसमये प्रथमोऽल्पतरबन्धः । एतत् षड्विधं | बन्धस्थानमपूर्वकरणप्रथमसप्तभाग यावत्, ततः परं निद्राप्रचलाबन्धव्यवच्छेदे चतुर्विधं बनत आद्यसमये द्वितीयोऽल्पतरबन्धः । | एतच्चतुर्विधं बन्धस्थानं सूक्ष्मसम्परायं यावत् , ततः कस्यचित् प्रतिपत्य पड्विधं बध्नतः प्रथमसमये प्रथमो भूयस्कारबन्धः । ततोऽपि श्रा प्रतिपत्य नवविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धः । अत्र नवविधादिषु त्रिधपि द्वितीयादिसमयेषु तदेव बध्नतस्त्रयोऽवस्थि
NAGORCakeSSOMODAL