SearchBrowseAboutContactDonate
Page Preview
Page 1331
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८५॥ षट् प्रकृतीर्थध्नतः पद्, ताच सूक्ष्मसम्परायस्य । सप्त बघ्नतां सप्त, ताथ मिश्रापूर्वकरणानिवृत्तिवादराणां सदा, शेषाणां चायुर्वन्धाभावे । अष्टौ बध्नतामष्टौ, ताश्च मिश्रवर्जितमिथ्यादृष्ट्याद्यप्रमत्त संयतान्तानामायुबन्धकाले द्रष्टव्याः । अत्र त्रयो भूयस्काराः, तथाहि - उपशान्तमोहगुणस्थानके एकां प्रकृतिं बद्धा ततः प्रतिपत्य सूक्ष्मसम्परायगुणस्थाने पद् प्रकृतीर्वघ्नतः प्रथमे समये भूयस्कारः, शेषकालं त्ववस्थितः, एप प्रथमो भूयस्कारः । ततोऽपि प्रतिपततोऽनिवृत्तिवादरसम्पराये सप्त बघ्नतः प्रथमसमये द्वितीयो भूयस्कारः, शेषकालं त्ववस्थितः । सप्त बद्धाऽष्टौ प्रमत्तादिगुणस्थानेषु बध्नतः प्रथमसमये तृतीयो भूयस्कारः, शेषकालं त्ववस्थितः । तथा त्रयोऽल्पतराः, ते चैवम्-अष्ट बद्धा सप्त बघ्नतः प्रथमे समयेऽल्पतरः, शेषकालं त्ववस्थितः इत्येष प्रथमोऽल्पतरः । यदा तु सप्त बद्धा सूक्ष्मसम्परायगतः पद् बध्नाति तदा प्रथमसमये द्वितीयोऽल्पतरः, शेषकालं त्ववस्थितः । षड् बद्धोपशान्तमोहे क्षीणमोहे वैकां बघ्नतः प्रथमसमये तृतीयोऽल्पतरः शेषकालं त्ववस्थितः । तदेवं मूलप्रकृतिबन्धस्थानेषु त्रयो भूयस्कारास्त्रयोऽल्पतराश्चत्वारश्चावस्थिता बन्धाश्चतुर्ष्वपि स्थानेष्ववस्थितस्य प्राप्यमाणत्वादिति सिद्धम् । अवक्तव्यबन्धस्तु मूलप्रकृतीनां न संभवति, सर्वमूलप्रकृत्यबन्धकस्यायोगिकेवलिनो भूयोऽपि बन्धकत्वाभावात् । उदयस्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्रेति । तत्राष्टानामुदयः सूक्ष्मसम्परायं यावत्, मोहोदयं विना सप्तानामुपशान्ते क्षीणमोहे वा, चतसृणां घातिवर्जानां केवलिनः, अत्रक एवं भूयस्कारः । उपशान्तमोहे सप्तवेदको भूत्वा ततः प्रतिपाते भूयोstयष्टौ वेदयत इति । चतुर्वेदकस्तु भूत्वा सप्ताष्टौ वा न वेदयते, चतुर्वेदकत्वस्य सयोग्यवस्थायां भावात् ततश्च प्रतिपाताभावात्, तत एक एवात्र भूयस्कारो, द्वावल्पतरौ त्रयोऽवस्थिताः, अवक्तव्यस्तु नास्ति, सर्वकर्मावेदकस्य सिद्धस्य भूयोऽपि कर्मवेदकत्वासंभवात् । R बंधस्थानेषु भूयस्कारा दयः ॥८५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy