________________
16 | मेतो तईओ', तावन्मात्रस्तृतीयोऽवस्थित इत्यर्थः । एते त्रयोऽपि प्रकारा मूलप्रकृतीनां संभवन्ति । चतुथो न संभवति । न हि मूल-IN
प्रकृतीनां सर्वासां बन्धव्यवच्छेदे सति भूयोऽपि बन्धः संभवति येन चतुथों बन्धः स्यात् । तत उत्तरप्रकृतीरधिकृत्य स वेदितव्यः । यथा मोहनीयस्य तद्गतसर्वोत्तरप्रकृतिबन्धव्यवच्छेदे सति उपशान्तमोहगुणस्थानकात् प्रतिपाते भूयोऽपि बन्धारम्भपथमसमपे, स हि |
तदानीं न भूयस्कारो वक्तुं शक्यते, नाप्यल्पतरः, नाप्यवस्थितः, तल्लक्षणायोगात्, ततोऽसाववक्तव्य इत्युच्यते, भूयस्कारादिनाम्ना व १५ ५ क्तुमशक्यत्वात् । एवमुत्तरप्रकृतीरधिकृत्य ज्ञानावरणीयादीनां वेदनीयवर्जानामवक्तव्यो भावनीयः। वेदनीयस्य त्ववक्तव्यो न संभवति,
तस्य हि सर्वथा बन्धव्यवच्छेदः सयोगिकेवलिचरमसमये, न च ततः प्रतिपातो येन भृयो बन्धः प्रवर्तमानः प्रथमसमयेऽवक्तव्यः स्यात । तदेवं मूलप्रकृतीरधिकृत्यावक्तव्यवर्जाः शेषास्त्रयः प्रकाराः, उत्तरप्रकृतीस्त्वधिकृत्य चत्वारोऽपि प्रकाराः संभवन्ति । यथा च बन्धे ) चत्वारोऽपि प्रकारा भाविता एवं संक्रमे उद्वर्तनायामपवर्तनायामुदीरणायामुपशमनायामुदये सत्तायां च प्रकृतिस्थानेषु स्थित्यनुभाग| प्रदेशस्थानेषु च यथायोगं स्वयमेव भावनीयाः ॥५२॥
(उ०) एतेषां चतुर्णा लक्षणमाह-स्तोकप्रकृत्यादिवन्धाद्यनन्तरमेकाद्यधिकप्रकृत्यादिबन्धादिसम्भवे प्रथमो नाम भूयस्कारः । प्रभू-| तप्रकृत्यादिबन्धाद्यनन्तरमेकाबूनबन्धादिसंभवे द्वितीय इत्यल्पतरः । यावन्मात्रः प्रथमे समये बन्धादिस्तावन्मात्र एव द्वितीयादिसमये | प्रवर्तमानस्तृतीयो भेदोऽवस्थितः । यदा तु सर्वथैवाबन्धकादिर्भूत्वा भूयोऽपि बन्धादिकमारभते तदा स बन्धादेश्चतुर्थो भेदोऽवक्तव्य |नामा, भूयस्कारादिशब्देन वक्तुमशक्यत्वात् । इह प्रकृतिबन्धोदयोदीरणासत्ताश्रितं भूयस्कारादिस्वरूपं पञ्चसंग्रहानुसारेण भाव्यते
तत्र मूलप्रकृतीनां चत्वारि बन्धस्थानानि एक षट् सप्ताष्टौ च । तत्रैकां प्रकृति सातवेदनीयलक्षणां बध्नत एका, सा चोपशान्तमोहादेः।
secacakSSIOD