SearchBrowseAboutContactDonate
Page Preview
Page 1320
Loading...
Download File
Download File
Page Text
________________ संतकम्मं एयं एगं फडुगं, तम्हा ट्ठितिखंडवोच्छेयातो खीणकसायसेसकालसमा एगेण अहिगा फडगा भवंति घातिकम्माणं । 'णिद्दापयलाण हिच्चेगं ति-निद्दापयलाणं एवं चेव, णवरि एगेण फडगेण ऊणं भवति । कहं ? | भण्णति-तेसिं उदयाभावातो एगं फडगस्स संभवो नत्थि, (अणु)दयट्टितिगयं उदयट्ठितिसु थिबुगसंकमेण संकमतित्ति काउं ॥४८॥ (मलय०)-सम्प्रति मोहनीयवर्जानां घातिकर्मणां स्पर्द्धकनिरूपणार्थमाह-'ठिइखंडगीति । क्षीणकषायस्य 'स्थितिखण्डव्यवच्छे- | दात्'-स्थितिघातव्यवच्छेदात् परतो यः शेषकालस्तिष्ठति तत्समानि शेषकालसमयसमानि स्पर्धकानि एकाधिकानि घातिकर्मणां भवन्ति । | निद्राप्रचलयोस्तु 'हित्वा'-परित्यज्य एकं चरमं स्थितिगत स्पर्द्धकं, शेषाणि वाच्यानि, निद्रामचलयोर्हि उदयाभावात् स्वस्वरूपेण चरमसमये दलिकं न प्राप्यते किन्तु परप्रकृतिरूपेण, तेन तयोरेकं स्पर्द्धकं चरमस्थितिगतं परित्यज्यते । स्पर्धकानां चेयं भावना क्षीणकषायाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिंश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुपाटयान्तरायपश्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति । निद्रापचलयोस्त्वेकसमयहीनम् । अत्र च कारणं शपागेवोक्तम् । तदानीं च स्थितिघातादयो निवृत्ताः । यदपि च क्षीणकषायाद्धासमं स्थितिसत्कर्म कृतं, तदपि च क्रमेण यथासंभवमुदयोदीरणाभ्यां क्षयमुपगच्छत्तावद्वक्तव्यं यावदेका स्थितिः शेषीभवति । तस्यां च क्षपितकांशस्य सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं स्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमेकैकपरमाणुवृद्धथा निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । द्वयोश्च स्थित्योः शेषीभूतयोरुक्तप्रकारेण DECECONOD
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy