________________
43204
कर्मप्रकृतिः ॥८ ॥
WeCEDA
| द्वितीयं स्पर्धकम् । तिसृषु स्थितिषु शेषीभृतासु तृतीय स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते सत्कर्मणि यावन्तः स्थितिविशेषास्ता- |
वन्ति स्पर्धकानि वाच्यानि । चरमस्य च स्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा पश्चानुपूर्त्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि सत्ता | तावद्वक्तव्यानि यावदात्मीयमात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म तावदेतदपि सकलनिजनिजस्थितिगतं यथासंभवमेकैकं स्पर्धकं द्रष्टव्यम् ।
प्रदेशसत्क
र्मस्थान. ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतः क्षीणकषायाद्धासमयसमानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु द्विचरमस्थितिम
प्ररूपणा धिकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकस्याप्राप्यमाणत्वाम् । तत एकेन हीनानि तस्य स्पर्धकानि द्रष्टव्यानि ॥४८॥ ___ (उ०)-अथ मोहनीयवर्जानां घातिकर्मणां स्पर्धकनिरूपणार्थमाह-क्षीणकपायस्य स्थितिखण्डव्यवच्छेदात् परतो यः शेषः काल | स्तिष्ठति स्वसंख्येयभागलक्षणस्तत्समयसमानि स्पर्धकानि घातिकर्मणामेकाधिकानि भवन्ति । निद्राप्रचलयोस्तु हित्वा परित्यज्यैकं चरमस्थितिगतं स्पर्धकं शेषाणि चाच्यानि, निद्राप्रचलयो दयाभावात् स्वरूपेण चरमसमये दलिकं न प्राप्यते, किंतु परप्रकृतिरूपेण, तेन तयोरेकस्पर्धकं चरमस्थितिगतं त्यज्यते, शेषघातिकर्मणां तूदयवत्वात्तन्न परित्यज्यते । अधिकृतस्पर्धकभावना चेयम्-क्षीणकषायाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं क्रियते, निद्राप्रचलयोस्त्वेकसमयहीनं, तदानीं च स्थितिघातादयो निवर्तन्ते, ततः क्षीणकषायाद्धासमीकृतं स्थितिसत्कर्म यथायोगमुदयोदीरणाभ्यां क्षयमुपगच्छत्तावस्थितिविशेषतामापद्यते यावदेका स्थितिः शेषीभवति । तस्यां च क्षपितकांशस्य यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते ॥८॥ द्वितीयं, परमाणत्यप्रक्षेपे तृतीयं, एवमेकैकपरमाणवृद्धचा निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावगणितकर्माशस्य सर्वो-X