________________
| स्थानमायाति । इहैकैककर्मस्कन्धोत्तरवृद्धथभिधानं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा तु प्रागेकप्रदेशोत्तरवृद्धिरेवाभिहितेति ली कर्मप्रकृतिः
द्रष्टव्यम् । तदेवमुक्तं स्पर्धकानां सामान्यलक्षणं, अथोद्वलनप्रकृतीनां स्पर्धकप्ररूपणामाह-'एगं उव्वलमाणी', अत्र प्रथमैकवचनस्य षष्टी- सत्ता R૭૮ बहुवचनपरत्वादुद्वल्यमानप्रकृतीनां त्रयोविंशतिसंख्यानामेकं स्पर्धकमित्यर्थः। तत्र सम्यक्त्वस्य ताबद्भावना विधीयते-अभव्यप्रायोग्य- प्रदशसत्क
मस्थानजघन्यस्थितिसत्कर्मा सेषु मध्ये समुत्पद्य तत्र सम्यक्त्वं देशविरनिं चानेकवारान् लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशं
प्ररूपणा * सागरोपमशतं च यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्चिरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखण्डं संक्रमेण परिगलित
मेका च शेषोदयावलिका तिष्ठति, तामपि च स्तिबुकसंक्रमेण मिथ्यात्वे संक्रमयति, संक्रमयतश्च यदैका स्थितिबिसमयमात्राऽवशिष्यते
तदा सम्यक्त्वस्य जघन्यं प्रदेशसत्कर्मस्थानं, ततो नानाजीवापेक्षयकैकप्रदेशवृद्धयाऽनन्तानि प्रदेशसत्कर्मस्थानानि तावन्नेतव्यानि यावद्दुर णितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति, इदमेकं स्पर्धकम् । एवं सम्यग्मिथ्यात्वस्यापि निरवशेषं वाच्यम् । एवमेव च शेषाणामप्युद्व
लनयोग्यानां वैक्रियकादशकाहारकसप्तकोच्चोत्रमनुष्यद्विकरूपाणां वाच्यम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो मूलत एव न वाच्यः । इहोद्वलनप्रकृतीनामेकस्पर्धकाभिधानमुपलक्षणपरं द्रष्टव्यं, न तु शेषनिषेधपरं, यावता प्रागुक्तानामनुदय वतीनामिवासामप्यावलिकासमयसमान्येव स्पर्धकानि लभ्यन्त इति । उक्तं च पञ्चसंग्रहे-"अणुदयतुलं उव्वलणियाण जाणिज दीहउव्वलणे ति"-उबलनप्रकृतीनां दीघोंटलने चिरोद्वलने क्रियमाणे स्पर्द्धकपटलमनुदयतुल्यमनुदयप्रकृतितुल्यं जानीहीत्येतदर्थः । 'लोभजसा
॥७८|| णोकसायाणं' ति-प्रथमायाः पष्ठ्यर्थत्वात् संज्वलनलोभयशःकीयोनोंकषायाणां च षष्णामेकं स्पर्धकम् । तत्राभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकाशक्रियाभिः कर्मदलिकं प्रभृतं क्षपयित्वा
GGG