SearchBrowseAboutContactDonate
Page Preview
Page 1316
Loading...
Download File
Download File
Page Text
________________ SONGDIODE मा कांशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । इदमेकं स्पर्धकम् । एवं सम्यग्मिथ्यात्वस्यापि । एवमेव च शेषाणामप्युदलनयोग्यानां | पाक्रियैकादशकाहारकसप्तकोच्चैर्गोत्रमनुष्यद्विकरूपाणां प्रकृतीनाम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो | मूलत एव न वक्तव्यः । 'लोभजसा इत्यादि-संज्वलनलोभयशाकीयोरपि एकं स्पर्धकम् । तथाहि-स एवाभवसिद्धिकप्रायोग्यजघन्यस्थि४ | तिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र च चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकमांशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा चिरकालं च संयममनुपाल्य क्षपणायोत्थितः। तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारभ्य नानाजीवापेक्षया | एकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलन| लोभयशाकीयोः स्पर्धकम् । षण्णामपि च नोकषायाणां प्रत्येकमेकैकं स्पर्धकम् । तदपि चैवं-स एवाभवसिद्धिकप्रायोग्यजघन्यप्रदेश-5 सत्कर्मा बसेषु मध्ये समुत्पन्नः । ततः सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य स्त्रीवेदनपुंसकवेदौ च | भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातस्तत्र चिरकालं संयममनुपाल्य क्षपणायोत्थितः । तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येक षण्णां नोकषायाणां प्रदेशसत्कर्म तत्सर्वजघन्यम् । ततस्तस्मादारभ्य नानाजीवापेक्षया एकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावद्द्वणितकमांशस्योत्कृष्ट प्रदेशसत्कर्म। एवमेकं षण्णां नोकषायाणां प्रत्येकं स्पर्धकम् ॥४७॥ (उ०)-सम्प्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-सर्वजघन्यात्प्रदेशसत्कर्मस्थानादारब्धं स्कन्धेनैकैकेन | कर्मस्कन्धेनोत्तरतः पूर्वमादुत्तरोत्तरेण निरन्तरं प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि' ति-उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्म SONGS DREGet
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy