________________
|| दकेन यद्धद्धं दलिकं तद्वन्धावलिकोत्तीण सदावलिकामात्रेण कालेन निरवशेष संक्रम्यमाणमावलिकाचरमसमये स्वरूपापेक्षयाकर्मता सनीयते, द्विचरमसमयक्रोधादिवेदकेन च यदद्धं तदपि बन्धावलिकायामतीतायामन्ये नावलिकामात्रेण कालेन संक्रम्यमाणमावलिकाचर-10
मसमयेऽकर्मतां नीयते । एवं यन्कर्म यस्मिन् समये बद्धं तत्तस्माद्वितीयसमयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति । तथा च बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सन्प्राप्यते, न शेष, यत आवलिकाया असत्कल्पनया चतुःसमयात्मिकायाः कल्पने बन्धादिव्यवच्छेदसमयादर्वागष्टमे समये बद्धं चतुःसमयात्मिकायां बन्धावलिकायां परिगलितायामन्यया चतुःसमयात्मिकयाऽऽवलिकयाऽन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदसमयरूपे सर्वात्मनाऽन्यत्र संक्रमितत्वात् स्वरूपेण न प्राप्यते ।
सप्तमसमये च यद् बद्धं तचतुःसमयात्मिकायामावलिकायां परिक्षीणायामन्यया चतुःसमयात्मिकयाऽऽवलिकयाऽन्यत्र सक्रम्यमाणं | ४. बन्धादिव्यवच्छेदानन्तरसमये सर्वात्मनाज्यत्र सङ्क्रमितत्वात् स्वरूपेण न प्राप्यते । षष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ | व्यवच्छिन्ने सत्यनन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव सत् , नान्यदिति । तत्र बन्धादिकं यस्मिन् समये भवति तदग्रिमसमये च न भवति तस्मिन् बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्वद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र सङ्क्रम्यमाणस्य चरमसमये यद्दलिकं सक्रमयिष्यति तत्संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यबद्धं तदलिकं चरमसमये द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमुत्तरोत्तरयोगस्थानानुसरणेन तावदाच्य यावदत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यबद्धं तद्दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम। एवं जघ| न्ययोगस्थानादारभ्योत्कृष्टयोगस्थानपर्यन्तं यावन्ति योगस्थानानि भवन्ति तावन्ति बन्धादिव्यवच्छेदसमयबद्धस्य दलिकस्य प्रदेशसत्क
2kkakka