SearchBrowseAboutContactDonate
Page Preview
Page 1305
Loading...
Download File
Download File
Page Text
________________ मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यद्बध्यते तत्रापि द्वितीकर्मप्रकृतिःयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनीयानि । केवलं स्थितिद्वयभावीनि तान्यवसेयानि, तदानी बन्धा-४ सत्ता प्रदेशसत्क॥७२॥ दिव्यवच्छेदचरमसमयबद्धस्यापि दलिकस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् , इदं द्वितीयं स्पर्धकम् । एवं बन्धादिव्यवच्छेदत्रिचरमसमये जघन्ययोगादिना यद्बद्धं तस्यापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं तानि | मस्थान प्ररूपणा | स्थितित्रयभावीन्यवबोद्धव्यानि, तदानी बन्धादिव्यवच्छेदचरमसमयबद्धस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धकर्म-3 * सत्कस्यापि दलिकस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् , इदं तृतीयं स्पर्धकम् । एवं समयदयोनावलिकाद्विके यावन्तः समयास्ताव न्ति स्पर्धकानि भवन्ति । एवं संज्वलनमानमाययोरपि तान्ति स्पर्धकानि प्रत्येकं वाच्यानि । तत आह-'अहिगाणीत्यादि । योगस्थानानि योगस्थानकृतप्रदेशसत्कर्मस्पर्धकानि कृत्स्नानि समुदितानि विवक्षितानि आवलिकासमयाभ्यां समयाभ्यामूनैर्गुणानीति गुणितान्यधिकानि प्राप्यन्ते । तथाहि-बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणान्यवाप्यन्ते स्पर्धकानि । | तदा च प्रथमायां स्थितावनुदयावलिकैका शेषीभृताऽवतिष्ठते, द्वितीयस्थितौ च द्विसमयहीनद्वयावलिकाप्रमाणमुत्कृष्ट स्पर्धकमस्ति । यदा तु प्रथमस्थितिमत्कानुदयावलिका प्रकृत्यन्तरेषु सङ्क्रम्यमाणा निःशेषा व्यवच्छिन्ना भवति तदा परतोऽपि द्वितीयस्थितिगतावलिकाऽन्यत्र सङ्क्रमेण व्यवच्छिद्यमाना त्रुटथति । तत एकावलिकाप्रमाणानि स्पर्धकान्यन्यत्र सङ्कमद्वारा त्रुटितत्वात पृथड्न ॥७२॥ | गण्यन्त इति तेषु प्रथमस्थितौ चव्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमयप्रमाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥४५॥ DoGODSee DKGESeason
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy