SearchBrowseAboutContactDonate
Page Preview
Page 1302
Loading...
Download File
Download File
Page Text
________________ ONEERONGHDOC चतुःसमयात्मिकायामतीतायां अन्यया चतुःसमयात्मिकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदचरमसम-1Y | यरूपे सर्वथा स्वरूपेण न प्राप्यते, अन्यत्र सर्वात्मना संक्रमितत्वात् । सप्तमे समये यबद्धं तच्चतुःसमयात्मिकायामावलिकायामतिकान्तायामन्यया चतु:समयात्मिकया अन्यत्र संक्रम्यमाणं बन्धादिव्यवच्छेदानन्तरसमये स्वरूपेण न प्राप्यते, सर्वात्मनाऽन्यत्र संक्रमित-10 त्वात् । शेषषष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ व्यवच्छिन्ने सति अनन्तरसमये समययोनावलिकाद्विकबद्ध मेव सत् प्राप्यते, | नान्यदिति । तत्र बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्रद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र संक्र म्यमाणस्य चरमसमये यत् संक्रमयिष्यति न तावत्संक्रमयति तत् संचलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्या| नवतिना बन्धादिव्यवच्छेदसमये यदद्धं तस्यापि दलिकं चरमसमये द्वितीयं प्रदेशमत्कर्मस्थानम् । एवं तावद्वाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यबद्धं तस्य दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम् । एवं जघन्यं योगस्थानमादिं कृत्वा यावन्ति योगस्थानानि भवन्ति तावन्ति प्रदेशसत्कर्मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादिव्यवच्छेदद्विचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनी| यानि । केवलं स्थितिद्वयभावीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छेदचरमसमये बद्धस्यापि दलिकस्य तदानी द्विसमयस्थितिकस्य प्राप्यमाणत्वात् । इदं द्वितीयं स्पर्धकम् । एवं बन्धादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं स्थितित्रयभावीनि तानि भावनीयानि, तदानी बन्धादिव्यवच्छेदचरमसमयबद्धसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धसत्कस्यापि दलिकस्य द्विसमयस्थितिकस्यापि प्राप्यमाणत्वात् ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy