________________
कर्मप्रकृतिः 119011
सव्वातो एवं भावेयव्वाओ । एवं जोगट्टाणाणि आवलियासमएहि दुसमणेहिं पपन्नाणि जत्तियाणि तत्ति| याणि फड्डगाणि पढमट्टितीए वोच्छिन्नाए लभंति । जोगट्टाणाणं च एक्कगदुगतिगचउक्कादीहिं संजोगेहिं गुणिया अणेगभेयाउ उप्पजंति | ४५ |
( मलय ० ) - ' संजल तिगे 'ति । 'संज्वलनत्रिके'- क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । इयमत्र भावनाक्रोधादीनां प्रथमस्थितिर्यावदावलिकाशेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते । आवलिकाशेपायां तु | प्रथमस्थितौ व्यवच्छिद्यन्ते । ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् सर्व क्षीणम् तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकभावना यथा प्राक् कृता तथात्रापि कर्तव्या । यच्च समयद्वयोनावलिकाद्विकबद्धं दलिकमस्ति तस्यान्यथा स्पर्धकभावना क्रियते, पूर्वप्रकारेणात्र स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथोच्येत कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव दलिकमस्ति न शेषमिति ज्ञायते ? उच्यते - इह चरमसमयक्रोधादिवेद केन यद्वद्धं दलिकं तद्बन्धावलिकातीतमावलिकामात्रेण कालेन निरवशेषं संक्रमयति । तथा च सत्यावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी भवति । द्विचरमसमयवेदकेन यद्यद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रमयति । आवलिकायाश्रमसमये अकमभवति । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति । तथा च सति बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सत्प्राप्यते, न शेषम् । तथाहि तच्चतोऽसंख्यातसमयात्मिकाप्याचलिका किलासत्कल्पनया चतुःसमयात्मिका कल्प्यते । ततो बन्धादिव्यवच्छेद चरमसमयादव अष्टमे समये यद्वद्धं तद्बन्धावलिकायां
सत्ता
प्रदेशसत्क
र्मस्थान
प्ररूपणा
119211