SearchBrowseAboutContactDonate
Page Preview
Page 1296
Loading...
Download File
Download File
Page Text
________________ ROMANCEDiskDS न्तिमा या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनां अस्ति, न च उदयः, तासां स्त्यानद्धित्रिकमिथ्यात्वाद्यद्वादशकषायनरकद्विकतियरिद्वकपञ्चेन्द्रियजातिवजजातिचतुष्टयातपोद्योतस्थावरमूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । खलुशब्दो वाक्यालङ्कारे । तुरेवकारार्थः । आवलिकासमयसमान्येवेत्यर्थः । इयमत्र भावना| अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः । तत्र च सर्वविरतिं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमग्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च पल्योपमासंख्येयभागमानं कालं यावत स्थित्वा मनुष्येषु मध्ये समुत्पन्नः । तत्र च क्षपणायामभ्युद्यतः । तस्य चरमे स्थितिखण्ड केऽपगते सति चरमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यदा शएका स्थितिबिसमयमात्रावस्थाना शेषीभवति तदा सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् पर| माणौ प्रक्षिप्ते सति अन्यत् द्वितीयं प्रदेशसत्कर्मस्थानं भवति । ततो द्वयोः परमाण्वोः प्रक्षिप्तयोरन्यत्तृतीयं प्रदेशसत्कर्मस्थानम् । त्रिषु | परमाणुषु प्रक्षिप्तेषु अन्यत् । एवमेकैकपरमाणुप्रक्षेपेण प्रदेशसत्कर्मस्थानानि नानाजीवापेक्षयाऽनन्तानि तावद्वाच्यानि यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । अत ऊर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यते । तत इदमेकं स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्य । एवं द्वयोश्वरमस्थित्योद्वितीयं स्पर्धकं वक्तव्यम् । तिसृषु च स्थितिषु तृतीयम् । एवं तावद्वाच्यं यावत्समयोनाबलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । तथा चरमस्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्वक्तव्यानि यावदात्मीयमात्मीयमुत्कृष्टं प्रदेशसत्कर्म, यत एतावदेतदपि सकलस्थितिगतं यथासंभवमेकं स्पर्धक विवक्ष्यते । तत एतेन स्पर्धकेन सहावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति ॥४४॥ DISCARROTES
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy