SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६८॥ (उ०)-तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं, अथ प्रदेशसत्कर्मस्थानप्ररूपणां चिकीर्षुः स्पर्धकप्ररूपणामाह-चरमा सर्वान्तिमा | | या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनामस्ति, न चोदयः, तासां स्त्यानचित्रिकमिथ्यात्वप्रथमद्वादशकषायनरक- सत्ता द्विकतिर्यग्द्विकाद्यजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तत्समान्येव खलु प्रदेशसत्क मस्थानस्पर्धकानि भवन्ति । तुरेवकारार्थः । स्वलुक्यालङ्कारे । अयमिह भावार्थः-अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पद्य प्ररूपणा तत्र देशविरतिं सर्वविरतिं वाऽनेकवारं लब्ध्वा चतुरो वारान्मोहनीयमुपशमय्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पद्य तत्र च पल्योपमासंख्येयभागमात्रं कालं यावस्थित्वा ततो मनुष्येषु मध्ये समुत्पन्नः सन् यः शीघ्रं क्षपणार्थमभ्युद्यतस्तस्य चरमे स्थितिखण्डकेऽपगते सति चरिमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यावदेका स्थितिद्विसमयमात्रा शेषीभवति तदा सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानं, तत एकपरमाणुप्रक्षेपे द्वितीयं, द्विपरमाणुप्रक्षेपे तृतीयं, एवं यथोत्तरमेकैकपरमाणुप्रक्षेपेण नानाजीवापेक्षयाs| नन्तानि प्रदेशसत्कर्मस्थानानि वाच्यानि, यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानं भवति । तदूर्ध्व| मन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यत इतीदमेकं स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्यैकस्थितिक स्पर्धकम् । एवं द्वयोश्चरमस्थित्योः | शेषीभूतयोििस्थतिक द्वितीय स्पर्धकं वक्तव्यं, तिसृषु च स्थितिषु त्रिस्थिकं तृतीय, एवं तावद्वाच्यं यावत्समयोनावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । अत्र समयोनावलिकाप्रमाणं स्पर्धकं सर्वोत्कृष्टं, एकस्थितिकं सर्वजघन्य, द्वित्रादिकासु च स्थितिषु शेषीभूतासु मध्यममिति विवेकः । तथा चरमस्थितिघातस्य चरमप्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या यथोत्तरं वृद्धानि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि | यावन्निजनिजमुत्कृष्टप्रदेशसत्कर्म । तत एतावदप्येतन्निखिलस्थितिगतं यथास्वमुक्तप्रकृतीनामे के स्पर्धकं विवक्ष्यते । तत एतेन स्पर्धा ॥६८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy