________________
SHOGGAONG
४ साद्यध्रुवं च । ततोऽन्यन्सर्वमजघन्यम् । तदपि चापूर्वकरणप्रथमसमये गुणसंक्रमेण प्रभूतस्य दलिकस्य प्राप्यमाणत्वात् अजघन्य || | भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि ध्रुवाध्रुवता पूर्ववत् । 'अभासियं दुविहं' ति-अभाषितमनुक्तं सर्वासां प्रकृतीनां | 'द्विविध-द्विप्रकारमवगन्तव्यम् । तद्यथा-साद्यध्रुवं च । तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्ट | द्विप्रकारं भावितमेव । जघन्याजघन्यता च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव भावनीया। ध्रुवसत्कर्मणां च चतुर्विंशतिशतसंख्या
नामभाषितमुत्कृष्टमनुत्कृष्ट जघन्यं च । तत्र जघन्यं भावितमेव । उत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ गुणितकाशे प्राप्यते । ततो द्वे अपि | साद्यधुवे । एवमनन्तानुबन्धिसंज्वलनलोभयशःकीर्तीनामपि उत्कृष्टानुत्कृष्टे भावनीये । जघन्यं तु भावितमेव । शेषाणां चाध्रुवसत्कर्मणां | चत्वारोऽपि विकल्पाः साद्यधुवा अध्रुवसत्कर्मत्वादवसेयाः ॥२६॥
(उ०)-अथोत्तरप्रकृतीरधिकृत्य साधनादिप्ररूपणां कुर्वन्नाह-सातवेदनीयसंचलनचतुष्टयपुरुषवेदपञ्चेन्द्रियजातितैजससप्तकाद्यसंस्थानाद्यसंहननशुभवर्णाकादशकागुरुलघुपराघातोच्छासप्रशस्तविहायोगतित्रसदशकनिर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट प्र | देशसत्कर्म चतुर्विधं-साधनादिध्रुवाधुवभेदात् । तथाहि-आद्यसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपकश्रेण्यां स्वस्वबन्धान्तसमये गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्म, तच्चैकसामयिकत्वात्साद्यध्रुवं, नतोऽन्यत्सर्वमनुत्कृष्ट, तदपि च द्वितीयसमये भवत्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाध्रुवे प्राग्वत । आद्यसंहननस्य तु सप्तमावनौ सम्यग्दृष्टे रकस्य मिथ्यात्वं यियासोरुत्कृष्ट प्रदेशसत्कर्म, | तच्च साद्यध्रुवं, ततोऽन्यदनुत्कृष्टं, तदपि द्वितीयसमये भवन्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाध्रुवे प्राग्वत् । तथाऽनन्तानुबन्धियश:| कीर्तिसंज्वलनलोभवजितानां चतुर्विशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं, अनादिध्रुवाचवभेदात् ।
GETSGGGoa