________________
onate
सातियअधुवा ते य । जहन्नगस्स कारणं पुवुत्तं । 'मूलपगइसुत्ति-मूलपगती पडुच्च 'आउस्स सादि अधुवा य४ सव्वे वित्ति-आउगस्स सव्वविगप्पा सातियअधुवा एव । उक्कोसा जहण्णा मिच्छादिहिमि लब्भतित्ती काउं॥ ___ (मलय०)-तदेवमुक्तमनुभागसत्कर्म । सम्पति प्रदेशसत्कर्म वक्तव्यम् , तत्र चैतेऽर्थाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा | स्वामित्वं चेति । तत्र भेदः प्राग्वत, सम्पति साधनादिप्ररूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र | मूलप्रकृतिविषयां तां चिकीर्षुराह-'सत्तण्हं ति । आयुर्वर्जानां सप्तानां मूलप्रकृतीनामजघन्यं प्रदेशसत्कर्म 'त्रिविधं त्रिप्रकारम् , तद्यथा| अनादि ध्रुवमध्रुवं च । तत्र क्षपितकाशस्य आयुर्वर्जानां सप्तानां कर्मणां स्वस्वक्षयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म । तच्च सायध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् , तच्चानादि, सदेव सद्भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया । 'सेसा दुह'त्ति-शेषा विकल्पा उत्कृष्टानुत्कृष्टजघन्यरूपा 'द्विधा' द्विप्रकाराः, तद्यथा-सादयोऽध्रुवाश्च । तत्रोत्कृष्टं प्रदेशसत्कर्म गुणितकांशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्टम् । ततो द्वे अपि साद्यध्रुवे । जघन्यं तु भावितमेव । तथा आयुषः सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्च, अध्रुवसत्कर्मत्वात् ॥२५॥
(उ०)-तदेवमुक्तमनुभागसत्कर्म, सम्प्रति प्रदेशसत्कर्म वक्तव्यं, तत्र च त्रयोऽर्थाधिकाराः-भेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदः प्राग्वत् । इदानीं साधनादिप्ररूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयां तां चिकीर्षुराह-आयुर्वर्जानां सप्तानां मूलपकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविध-अनादि ध्रुवमध्रुवं चेति । तत्र क्षपितकांशस्थायुर्वर्जसप्तकर्मणां स्वस्वक्षयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म, तच्च साद्यध्रुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव
D