SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ तानि हतोत्पत्तिकान्युच्यन्ते । हतात् घातात् पूर्वावस्थाविनाशरूपादुत्पत्तिर्येषां तानि हतोत्पत्तिकानि । तानि च पूर्वभ्योऽसंख्येयगुणानि, एकैकस्मिन् बन्धोत्पत्ति के स्थाने नानाजीवापेक्षया उद्वर्तनापवर्तनाभ्यामसंख्येयभेदकरणात् । यानि पुनः स्थितिघातेन रसघातेन चान्य थाऽन्यथाभवनादनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते । हते उद्वर्तनापवर्तनाभ्यां घाते सति भूयोऽपि हतात स्थिति घातेन रसघातेन वा घातादुत्पत्तिर्येषां तानि हतहतोत्पत्तिकानि । तानि चोद्वर्तनापवर्तनाजन्येभ्योऽसंख्येयगुणानि । संप्रत्यक्षरयोजना * क्रियते-यानि उदयत उदारणातश्च प्रतिसमयं क्ष्यसंभवात् अन्यथाऽन्यथानुभागस्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्ति कादीनि अनुभागस्थानानि क्रमशोऽसंख्येयगुणानि वक्तव्यानि । उदयोदीरणाजन्यानि कस्माद्वय॑न्त इति चेद् , उच्यते-यम्मादुदयो शिदीरणयोः प्रवर्तमानयोर्नियमात बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यानामन्यतमान्यवश्यं संभवन्ति, तत उदयोदीरणाजन्यानि तत्रैवान्तः प्रविशन्तीति न पृथक क्रियन्ते ॥२४॥ (उ०)-सम्प्रत्यनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाह-इहानुभागस्थानानि विधा-बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्ति-12 कानि चेति । तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि, तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि तद्धेतूनामध्यवसायानामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात् । तथोद्वर्तनापवर्त्तनाकरणवशतोऽन्यथाऽन्यथापरिणामेन यान्यनुभागस्थानानि वैचित्र्यभाञ्जि भवन्ति तानि हतोत्पत्तिकानीत्युच्यन्ते, हतात्पूर्वावस्थाविनाशरूपाद् घातादुत्पत्तिर्येषां तानि हतोत्पत्तिकानीति व्युत्पत्तेः, तानि च पूर्वेभ्योसंख्यगुणानि, एकैकस्मिन् बन्धोत्पत्तिके स्थाने नानाजीवापेक्षयोद्वर्तनापवर्तनाभ्यामसंख्येयभेदकरणात् । यानि तु स्थितिघातेन | रसघातेन वाऽन्यथात्वमापादितानि विलक्षणान्यनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते, हते उद्वर्तनापवर्तनाकृतघाते
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy