SearchBrowseAboutContactDonate
Page Preview
Page 1264
Loading...
Download File
Download File
Page Text
________________ सामी वि ॥२३॥ O (मलय०)-अत्रैव विशेषमाह-'मइसुय' त्ति । मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां 'श्रुतसमाप्तस्य' | सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः । 'ज्येष्ठलब्धिकस्य'-उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म । इदमत्र हैं तात्पर्यम्-मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसंपन्नश्चतुर्दशपूर्वधरो जघन्यानुभागसत्कर्मस्वामी वेदितव्यः । तथा १२ | परमावधिज्ञानिनोऽवधिद्विकम्-अवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति । एतदुक्तं भवति-अवधिज्ञानावरणाव| धिदर्शनावरणयोजघन्यानुभागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः । तथा ‘मनोज्ञानं'-मनःपर्यायज्ञानावरणं जघन्यानुभागसत्कर्म | विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यम् । स्वामित्वभावनाऽवधिज्ञानावरणवत् । लब्धिसहितस्य हि प्रवृतोऽनुभागः प्रलयमुपयातीति | परमोहिस्सेत्याधुक्तम् । शेषाणां तु प्रकृतीनां य एव जघन्यानुभागसंक्रमस्वामिनस्त एव जघन्यानुभागसत्कर्मणोऽपि द्रष्टव्याः।।२३॥ (उ०)-अत्रैव विशेषमाह-मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सर्वाक्षरसन्निपातिनचतुर्दशपूर्वधरस्य ज्येष्ठलब्धिकस्योत्कृष्टायां श्रुतज्ञानलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म, मतिज्ञानावरणादीनां सर्वोत्कृष्टश्रुतज्ञानलब्धिD सम्पन्नश्चतुर्दशपूर्वविजघन्यानुभागसत्कर्मस्वामी वेदितव्य इत्यर्थः । तथा परमावधिज्ञानिनोऽवधिद्विकमवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति, अवधिज्ञानावरणावधिदर्शनावरणयोर्जवन्यानुभागसत्कर्मस्वामी परमावधिसम्पन्नो ज्ञेय इत्यर्थः । तथा मनोज्ञानं विपुलज्ञानिनः-मनःपर्यायज्ञानावरणस्य जघन्यानुभागसत्कर्मस्वामी विपुलमतिलब्धिसम्पन्नो ज्ञेय इत्यर्थः । लब्धिसहितस्य | प्रभृतोऽनुभागः प्रलयमुपयातीति परमोहिस्सेत्यायुक्तम् ॥२३॥ 2NGOsSakadCevak
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy