________________
SADGette
'मणनाणे दुट्ठाणं देसहरं'ति-मणपज वनाणे दुहाणियं देसघातिं च जहन्नगं अणुभागसंतं ।
इयाणि एएसिं सामित्तं भण्णति-सामिगो य सम्मत्ते आवरणविग्यसोलसग किट्टीवेदेसु य सगंतेत्तिसम्मत्तं पंचनाणावरणा छदसणावरणा पंचअंतरातिगलोभसंजलण तिण्हं वेयाणं 'सगते'त्ति-अप्पप्पणो अंते वदृमाणो जहन्नाणुभागसंतसामी ॥२१-२२॥
(मलय०)-तदेवं स्थितिस्थानभेदोपदर्शनमपि कृतम् , सम्प्रत्यनुभागसत्कर्मप्ररूणार्थमाह-'संकमसमं'इत्यादि। अनुभागसंक्र| मेण तुल्यमनुभागसत्कर्म वक्तव्यम् । एतदुक्तं भवति-यथानुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाधनादित्वस्वामित्वानि प्राक् प्रतिपादितानि तथैवात्राप्यनुभागसत्कर्मणि वक्तव्यानि । नवरमयं विशेषो यदुत देशघातिनीनां हास्यादिपटकवर्जितानां मतिश्रुतावधि ज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रिकान्तरायपश्वकरूपागामष्टादशप्रकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्य | एकस्थानीयम् , घातिसंज्ञामधिकृत्य देशहरं-देशघाति वेदितव्यम् । मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुभागसत्कर्म स्थानमधिकृत्य द्विस्थानम् , घातिसंज्ञामधिकृत्य देशघाति । इहोत्कृष्टानुभागसत्कर्मस्वामिन उत्कृष्टानुभागसंक्रमस्वामिन एव वेदितव्याः । जघन्यानुभाग सत्कर्मस्वामिनः पुनराह-'सामिगो य'इत्यादि। सम्यक्त्वज्ञानावरगपञ्चकदर्शनावरणषटकान्तरायपञ्चकरूपप्रकृतिषोडशककिट्टिरूपसंवलनलोभवेदत्रयाणां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनो वेदितव्याः ॥२१-२२॥
(उ०)--तदेवं स्थितिस्थानभेदोऽप्युपदर्शितः, अथानुभागसत्कर्मप्ररूपणार्थमाह-अनुभागसंक्रमेण तुल्यमनुभागसत्कर्म वाच्यं, | यथानुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाधनादित्वस्वामित्वान्युक्तानि तथैवात्राप्यनुभागसत्कर्मणि वाच्यानीति भावः। नव-1)
HOccasian