________________
DOCIRDOSHDS
|नुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्षयमुपयाति तावद्यावदावलिका स्थितिः । ततोऽमृनि आवलिकामात्रसमयप्रमाणानि
स्थितिस्थानानि निरन्तराणि लभ्यन्ते ॥२०॥ 31 (उ०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वं, अथ स्थितिभेदनिरूपणार्थमाह-सर्वेषां कर्मणां निजनिजादुत्कृष्टात स्थितिस्था-15 | नादारभ्याधस्तादवतरता तावद्गन्तव्यं यावत्स्थावरजघन्यमेकेन्द्रियप्रायोग्यं जघन्यस्थितिसत्कर्म समायाति । एतावति स्थितिकण्डके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया नैरन्तयण लभ्यन्ते । तथाहि-उत्कृष्टा स्थितिरेक स्थितिस्थानं, सेव समयोना द्वितीयं, द्विसमयोना तृतीयं, एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच्च जघन्यस्थितिसत्कर्मणोऽयस्तारक्षपणादिषु क्षपणे उदलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते, अपिशब्दानिरन्तराणि च । कथमिति चेद् , उच्यतेएकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्रं स्थितिखण्डं स्वण्डयितमारभ्यते. खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां तु स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिःक्षीयते, | ततः प्रतिसमयं हानिकृताः स्थितिविशेषा लभ्यन्ते । तथाहि-तत्स्थावरप्रायोग्यं जघन्यस्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, | दितीयसमयेऽतिक्रान्ते द्विसमयहीनं, तृतीयसमयेऽतिक्रान्ते त्रिसमयहीनमित्यादि भवति, अन्तर्मुहर्तेन च कालेन तत स्थितिखण्डं खण्डयतीत्यन्तमहतं यावदेते समयसमयहानिकृता विशेषा लभ्यन्ते, तत उक्तस्थितिखण्डप्रमाणा स्थितियुगपदेव त्रुटितेति अन्तर्मुह-1Y दिल निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तमहतमात्रेण खण्डयति. तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि प्राग्वल्लभ्यन्ते, द्वितीये चस्थितिखण्डे