________________
कर्मप्रकृतिः ॥४९॥ |
(मलय०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वम् , सम्प्रति स्थितिभेदप्ररूपणार्थमाह-'ठिइसंतट्ठाणाई' ति । सर्वेषां कर्मणां स्वकीयात् स्वकीयात् उत्कृष्टात् स्थितिस्थानात् समयमात्रादारभ्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्यं-एकेन्द्रियपायोग्यं जघन्य सचा स्थितिसत्कर्म । एतावता स्थितिकण्डके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया 'निरन्तरेग' नरन्तर्येण लभ्यन्ते ।
स्थितिभेद तद्यथा-उत्कृष्टा स्थितिरेकं स्थितिस्थानम् , समयोना उत्कृष्टा स्थितिर्द्वितीयं स्थितिस्थानं, द्विसमयोना उत्कृष्टा स्थितिस्तृतीयं
RAL प्ररूपणा स्थितिस्थानम् । एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच्च जघन्यस्थितिसत्कर्मणोऽधस्तात् क्षपणादिषु क्षपणे उद्वलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते । अपिशब्दान्निरन्तराणि च । कथमिति चेत् , उच्यते-एकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्रं स्थितिखण्डं खण्डयितुमारभते । खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः क्षीयते । ततः प्रतिसमयं स्थितिविशेषा लभ्यन्ते । तद्यथा-तत्स्थावरप्रायोग्यं जघन्य स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, द्वितीये समयेऽतिकान्ते द्विसमयहीनम् , तृतीये समयेऽतिक्रान्ते त्रिसमयहीनमित्यादि । अन्तमुहर्तेन च कालेन तत् स्थितिखण्डं खण्डयति । तत एतावती स्थितियुगपदेव त्रुटितेति कृत्वाऽन्तर्मुहूर्ताचं निरन्तराणि स्थितिस्थानानि न लभ्यन्ते । ततः पुनरपि द्वितीयं पल्योपमासंख्ये| यभागमात्रमन्तर्मुहूर्तमात्रेण खण्डयति । तत्रापि प्रतिसमयमा समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि | पूर्वप्रकारेण लभ्यन्ते । द्वितीये च स्थितिखण्डे खण्डिते सति पुनरपि पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति न भूयोऽप्य- ॥४९॥ तमुहर्ताय निरन्तराणि स्थितिस्थानानि लभ्यन्ते । एवं तावद्वाच्यं यावदावलिका शेषा भवति । सापि चावलिका उदयवतीनाम