SearchBrowseAboutContactDonate
Page Preview
Page 1255
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४७॥ प्राप्यते, किन्तु पररूपेण, अत उक्तं उपान्त्यसमये स्वरूपापेक्षया समयमात्रा अन्यथा तु द्विसमयमात्रकालेति । सम्प्रति सामान्येन | सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामि प्रतिपाद्यते तत्रानन्तानुबन्धिनां दर्शनमोहनीय त्रिकस्य चाविरतादिरप्रमत्तपर्यन्तो यथासंभवं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये वर्तमानाः । कपायाष्टकस्त्यानर्द्धित्रिकनामत्रयो | दशकनव नोकषाय संज्वलनत्रिकरूपाणां पट्त्रिंशत्प्रकृतीनामनिवृत्तिवादरसंपरायः । संज्वलनलोभस्य सूक्ष्मसंपरायः । ज्ञानावरणपञ्चकदर्शनावरणषट्कान्तरायपञ्चकानां क्षीणकषायः । शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ||१९|| ( उ० ) - तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वं, अथ जघन्यस्थितिसत्कर्मस्वामित्वमाह -संज्वलनत्रिकस्य क्रोधमानमायारूपस्य स - सानां नोकषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्यं स्थितिसत्कर्म जघन्यस्थितिसंक्रमो ज्ञातव्यः, एतासां प्रकृतीनां बन्धस्योदयस्य च व्यवच्छेदे सत्यन्यत्र संक्रमेण क्षयनयनं भवतीति य एवासां चरमः संक्रमः स एव जघन्यस्थितिसत्कर्मेति भावः । शेषाणां पुनरुदयवतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टय वेदकसम्यक्त्व संज्वलन लोभायुश्चतुष्टयनपुंसक वेद स्त्री वेदसातासात वेदनीयोच्चैर्गोत्रमनुजगति| पञ्चेन्द्रियजातित्रस बादरपर्याप्तसुभगादेययशः कीर्त्तितीर्थकरान्तरायपञ्चकरूपाणां चतुस्त्रिंशत्प्रकृतीनां स्वस्वक्षयचरमसमये यैका समयमात्रा स्थितिः सा जघन्यस्थितिसत्कर्म । अनुदयवतीनां तु स्वस्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्राऽन्यथा तु द्विसमयमात्रा स्थितिजघन्यं स्थितिसत्कर्म अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रक्षेपात्तत्स्वरूपेणानुभवाच्च स्वरूपेण दलिकं न प्राप्यते किंतु पररूपेणेत्येवमुक्तम् । अथ सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते तत्रानन्तानुबन्धिनां दर्शन मोहनीयत्रयस्य चाविरतादिरप्रमत्तपर्यन्तो यथायोगं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये Sans सत्ता स्थितिसत्कर्म स्वामित्वं ॥४७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy