________________
अपमत्तो ताव अन्नयरो जहन्नगं ट्ठितिसंतकम्मसामी भण्णति । निरयायुगतिरियायुगदेवाउगाणं अप्पप्पणो वेयगो चरिमसमये वद्यमाणो। अट्टकसायधीणगिद्वितिग तेरसणामं नवनोकसायं संजलणतिगं एएसिं छत्तीसाए कम्माणं अणियहि जहन्नट्ठितिसंतकम्मसामी । लोभसंजलणाए सुहमरागो सामी । णाणावरण छदंसणावरण पंचण्हं अंतराइयाणं एएसि सोलसहं खीणकसाउ जहन्नगट्टितिसंतकम्मसामी। सेसाणं अजोगिकेवली जहन्नगहितीसंतसामी ॥१९॥ __(मलय०) तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वम् , सम्प्रति जघन्यस्थितिसत्कर्मस्वामित्वमाह-'संजलणतिगे'त्ति । संज्वलनत्रिकस्य क्रोधमानमायारूपस्य 'सप्तानां च नोकषायाणां'-पुरुषवेदहास्यादिषट्करूपाणां जघन्यस्थितिसत्कर्म जघन्यस्थितिसंक्रमो वेदितव्यः। | एताहि प्रकृतयो बन्धे उदये च व्यवच्छिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते,तेन कारणेन एतासां य एव चरमसंक्रमः स एव जघन्य स्थितिसत्कर्म । उक्तं च-"हासाइ पुरिस कोहादि तिन्नि संजलण जेण बंधुदये । वोच्छिन्ने संकमइ तेण इहं संकमो चरिमो ॥"जघन्यं । |स्थितिसत्कर्मति संबन्धः। शेषाणां पुनरुदयवतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वलनलोभायुश्चतुष्टयनपुंसकवेद| स्त्रीवेदसातासातवेदनीयोचैर्गोत्रमनुजगतिपश्चन्द्रियजातित्रसवादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतुस्त्रिंशत्संख्यानां स्वस्वक्षयपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्यं स्थितिसत्कर्म । अनुदयवतीनां पुनः प्रकृतीनां स्वस्वक्षयोपान्त्यसमये या स्वरूपापेक्षया समयमात्रा स्थितिरन्यथा तु द्विसमयमात्रकाला, सा जघन्यं स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति तत्स्वरूपेण चानुभवति तैन चरमसमये तासां दलिक स्वरूपेण न
RECED