________________
ONACHAR
मद्वारकावलिकाद्विकहीनोत्कृष्टस्थितिसमागमप्रमाणमावलिकासहितं प्रागुक्तमेवोत्कृष्टं स्थितिसत्कर्म समयोनमवगन्तव्यम् । तथाहि-10 | मनुष्यः कश्चिदुत्कृष्टसंक्लेशपरिणत उत्कृष्टां नरकस्थिति बद्धा परिणामपरावृत्त्या देवगति बद्धं लग्नः, तस्यां च देवगतौ बध्यमाना| यामावलिकाया उपरिष्टाद्वन्धावलिकातीतां नरकस्थितिमुदयावलिकात उपरितनी सकलामपि विंशतिसागरोपमकोटाकोटिप्रमाणां संक्र. | मयति, प्रथमां च स्थिति देवगतेः समयमात्रां मनुजगतौ वेद्यमानायामनुदयवतीत्वेन स्तिबुकसंक्रमेण संक्रमयति । ततस्तया समय| मात्रया स्थित्योन आवलिकयाऽभ्यधिक आवलिकाद्विकहीन उत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्टं स्थितिसत्कर्म । एवं देवानुपूर्व्यादी | नामपि षोडशमकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम्। सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम आवलि-IK | कयाऽभ्यधिकः समयोन उत्कृष्टस्थितिसत्कर्म वाच्यम् । तद्भावना च सम्यक्त्वभावनातुल्या विधेया। तथा उभयीषामुदयवतीनामनुदयवतीनां च संक्रमोत्कृष्टस्थितिकानां प्रकृतीनां संक्रमकाले यस्थितिः-सर्वास्थितिस्तुल्या, यतोऽनुदयवतीनामपि प्रथमा स्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणाऽपि दलिकरहिता तदानीं विद्यत एव, न हि कालः संक्रमयितुं शक्यते किं तु दलिकमेव, ततः | प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहितप्रथमस्थितेविद्यमानत्वानपायादुभयीषामपि यस्थितेस्तुल्यतेति। संक्रमकृतपरस्वरूपनिरूपिततया प्रथमस्थितेः स्वस्थितिबहिर्भाव एव युक्त इति चेन्न तथाप्येकस्थितिसंतत्युपादानत्वेन प्रथमस्थितेः स्वस्थित्यन्तर्भावाविरोधादिति युक्तं पश्यामः। यश्च यासां प्रकृतीनामुत्कृष्टां स्थिति बध्नाति यश्च यासूत्कृष्टस्थिति संक्रमयति स तासामुत्कटस्थितिसत्कर्मस्वामी ॥१८॥
इयाणिं जहन्नहितिसंतकम्मसामित्तं भन्नति
CRORICARRESPOMOL