SearchBrowseAboutContactDonate
Page Preview
Page 1250
Loading...
Download File
Download File
Page Text
________________ | उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले | उदयोऽस्ति तासां संक्रमकालेऽनुदयानां तावदेव पूर्वोक्तं स्थितिसत्कर्म समयोनमवगन्तव्यम्-आवलिकाद्विकडीनोत्कृष्टस्थितिसमागम | 10 आवलिकया सहितः समयोनस्तासामुत्कृष्टं स्थितिसत्कर्मेत्यर्थः । तथाहि-कश्चिन्मनुष्य उत्कृष्टतंकलेशवशादुत्कृष्टां नरकगतिस्थिति बद्धवा परिणामपरावर्तनेन देवगतिं बध्धुमारब्धवान् । तस्यां च देवगतौ बध्यमानायामावलिकाया उपरि नरकस्थिति बन्धावलिकातीतां | | उदयावलिकाया उपरितनी सकलामपि विंशतिसागरोपमकोटीकोटी प्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का | मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति । ततस्तया समयमात्रया स्थित्या ऊन आवलिकयाऽभ्यधिक आवलिकाद्विकहीनो कृष्टस्थितिसमागमो देवगतरुत्कृष्ट स्थितिसत्कर्म । एवं द्वित्रिचतुरिन्द्रियजात्याहारकसप्तकमनुजानुपूर्वी देवानुपूर्वी वक्ष्मापर्याप्त साधार-121 णतीर्थकराख्यानामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहतोन उत्कृष्टस्थि| तिसमागम आवलिकयाऽभ्यधिकसमयोन उत्कृष्टं स्थितिसत्कर्म वाच्यम् । तच्च सम्यक्त्वोक्तभावनानुसारेण भावनीयम्। 'उभयासिं | जट्टिई तुल्ल' त्ति-उभयीषामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाले 'यस्थितिः'-सर्वास्थितिस्तुल्या। यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणापि दलिकरहिता विद्यते एव । न हि कालः संक्रमयितुं शक्यते, किन्तु तत्स्थं दलिकमेव । ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत 7 एवेति कृत्वा उभयीषामपि यस्थितिः तुल्या । यश्च यासां प्रकृतीनां उत्कृष्टां स्थिति बनाति, यश्च यामूत्कृष्टां स्थिति संक्रमयति, स | | तासामुत्कृष्टस्थितिसत्कर्मस्वामी ॥१८॥ SINCREAS SALONASS GROSS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy