________________
CacaISACODISION
अजहन्नं तस्स आदी णथि धुवसंतकम्मत्ता, तम्हा अणातियं, धुवाधुवं पुवुत्तं । 'दुहाणुत्त'ति-अभणियाणं मूलपगदीणं उत्तरपगदीणं च उक्कोसणुक्कोसजहन्नविकप्पा, अधुवसंताणं अट्ठावीसाए पगदीणं उक्कोसणुक्कोसजहन्नाजहन्ना चत्तारि विकप्पा सादिया अधुवा, कहं ? भन्नइ-उक्कोसाणुक्कोसादीणं ठितीणं परावत्ती अथित्ति तम्हा सादिय अधुवा ॥१६॥
(मलय०)-तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यम् । तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः, साधनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदःप्रागिव । साधनादिप्ररूपणा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां | साधनादिप्ररूपणां चिकीर्षुराह-'मृलठिइत्ति । मूलप्रकृतिस्थितिसत्कर्म अजघन्यं त्रिधा त्रिप्रकारम् । तद्यथा-अनादिध्रुवमध्रुवंच । तथाहि
मूलप्रकृतीनां अजघन्यं स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने समयमात्रै कस्थित्यवशेषे भवति, तच्च सादि अध्रुवं च । नतोऽन्यत्सर्वमजघन्यम् , | तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टमनुत्कृष्टं च साद्यध्रुवं द्वयोरपि पर्यायेणानेकशो भवनात् । कृता मूलप्रकृतीनां | साधनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतीनां क्रियते-'चउद्धा य' इत्यादि । अत्र षष्ठयर्थे प्रथमा, ततोऽयमर्थः-प्रथमकषायाणामनन्तानुबधिनामजघन्यं स्थितिसत्कर्म चतुर्धा चतुष्प्रकारम् , तद्यथा-सादि अनादि ध्रुवमध्रुवं च । तथाहि-एषां जघन्यं स्थितिसत्कर्म स्वक्षयोपान्त्यसमये खरूपापेक्षया समयमात्रैकस्थितिरूपम् , अन्यथा तु द्विसमयमानम् , तच्च साद्यध्रुवम् , ततोऽन्यत्सर्वमजघन्यम् , तदपि चोदलितानां भूयो बन्धे सादि, तत्स्थानमप्राप्तानां पुनरनादि, ध्रुवाध्रुवता पूर्ववत् । तथा तीर्थकरनामोद्वलनयोग्यत्रयोविंशत्यायुश्चतुष्ट| यवर्जितानां शेषाणां पइविंशत्यधिकशतसंख्यानां प्रकृतीनामजघन्यं स्थितिसत्कर्म विधा, तद्यथा-अनादि ध्रुवमध्रुवं च । तथाहि
DIDIOINDO