________________
मान्, उत्कृष्टे च योगे वर्तमानः प्रभृतानिति । उक्तं चान्यत्रापि-"जोगणुरूवं जीवा परिणामंतीह गेण्हिउं दलिय" त्ति । अथवा तच्छब्देन पश्च शरीराणि संबध्यन्ते । ततश्च तदनुरूपं पञ्चशरीरानुरूपं शरीरपञ्चकमायोग्यतयेत्यर्थः, पुद्गलस्कन्धान गृह्णाति । तथा | भाषाप्राणापानमनस्त्वप्रायोग्यान् पुद्गलस्कन्धान प्रथमतो गृह्णाति, गृहीत्वा च भाषादित्वेन परिणमयति, परिणमय्य च तनिसर्गहेतु| सामर्थ्य विशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते, ततस्तद्वष्टम्भतो जातसामर्थ्य विशेषः सन् विसृजति नान्यथा । तथाहि-यथा | वृषदंशः स्वान्यङ्गान्युवं गमनाय प्रथमतः संकोचव्याजेनावलम्बते, ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन् तान्यङ्गान्युर्व प्रक्षिपति, नान्यथा शक्नोति, “द्रव्यनिमित्तं वीर्य संसारिणामुपजायते” इति वचनप्रामाण्यात , तथेहापि भावनीयमिति ॥१७॥
(उ०) तदेवं सप्रपञ्चं कृता योगप्ररूपणा,साम्प्रतमेभियोगैर्यत्करोति जीवस्तदाह-योगैः-अनन्तरोक्तलक्षणैः,तदनुरूपं योगानुरूपं, जघन्ययोगे वर्तमानः स्तोकान्मध्यमे मध्यमानुत्कृष्टे च प्रभूतान् पुद्गलस्कन्धान गृह्णातीति क्रमेणेत्यर्थः । प्रायोग्यान्-औदारिकादि| योग्यान्, स्कन्धान-पुद्गलस्कन्धान , गृहीत्वा परिणमयति । 'पंचतणु'त्ति-भावप्रधाननिर्देशादौदारिकादिपञ्चशरीरतयेत्यर्थः । तथा | भाषाप्राणापानमनस्त्वमायोग्यान पुद्गलस्कन्धान प्रथमतो गृह्णाति, गृहीत्वा च भाषादित्वेन परिणमयति, परिणमय्य च तन्निस
गहेतुसामर्थ्यविशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते,ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन् विसृजति, नान्यथा । यथा हि वृषदंशः | स्वान्यङ्गान्युर्व जिगमिषुः संकोचवशादवलम्बते-स्थिरतया धारयतीत्यर्थः, ततस्तदवष्टम्भाजातशक्तिविशेषस्तान्यङ्गान्युर्व प्रक्षेप्तुं शक्नोति नान्यथा, 'द्रव्यनिमितं वीर्य संसारीणामुपजायते' इति वचनप्रामाण्यात् , तथेहापि भावनीयम् ॥ १७ ॥
के ते गहणजोग्गा के वा अग्गहणजोगत्ति तं णिरूवणत्थं वग्गणाणं भेदो दरिसिज्जति । 'परमाणुसंखसंखा'